2026-02-08 07:39:43 by ambuda-bot
This page has not been fully proofread.
२६
*
*
सामान्यवेदान्त - उपनिषदः
तुरीयोपनिषत्
*
*
*
कलातीतश्चेति । तन्न चत्वारः । अकारश्चायुतावयवान्वितः । उकारः
शतावयवान्वितः । मकारः सहस्रावयवान्वितः । अर्धमात्रप्रणवोऽनन्तावय-
वान्वितः । सगुणो विराट्प्रणवः । संहारो निर्गुणप्रणवः । उभयात्मक
उत्पत्तिप्रणवः । यथार्थकथनोमित्युच्चार्याभिमानोत्पत्तिप्रणवः । सर्वोपसंहारेण
संहारप्रणवः । उभयात्मकत्वात् विराट्प्रणवः । उत्पत्तिप्रणवो दीर्घप्लुत-
विराट् । प्लुतप्लुत्युपसंहारः । विराट्प्रणवः षोडशमात्रान्वितः । षट्त्रिंशत्त-
त्वायुतः । षोडशमात्रात्मकं कथमित्युच्यते । अकारः प्रथमः । द्वितीय
उकारः । मकारस्तृतीयः । अर्धमात्रा चतुर्थः । नादः पञ्चमः । बिन्दुः
षष्ठः । कला सप्तमः । शक्तिरष्टमी । शान्तिर्नवमी । समाना दशमी ।
आत्मनैकादश । मनोन्मना द्वादश । वैखरी त्रयोदश । मध्यमा चतुर्दश ।
पश्यन्ती पञ्चदश । परा षोडश । इति षोडशमात्रात्मकः प्रणवः । षोडश-
मात्रा जाग्रत्स्वप्नसुषुप्तितुरीयावस्था भेदैरेकैकमात्राचातुर्विध्यमेत्य । षोडश-
मात्राश्चतुष्षष्टिभेदमेत्य । पुनश्चतुष्पष्टिमात्रा: प्रकृतिपुरुषद्वैविध्यमापाद्याष्टा-
विंशत्युत्तर भेदमात्रास्वरूपमासाद्य सगुण निर्गुणत्वमेत्य एकोपि ब्रह्म प्रणवः ॥
सर्वाधारः परं ज्योतिरेष सर्वेश्वरो विभुः ।
सर्वदेवमयः सर्वप्रपञ्चाधारगर्भितः ।
सर्वाक्षरमयः कालः सदसद्भक्तिवर्जितः ॥ इति ।
य एवं वेदेत्युपनिषत् ॥
इति तुरीयोपनिषत् समाप्ता