2026-02-08 23:07:44 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>छागलेयोपनिषत्</ignore>
<ignore>२५</ignore>
<p>समः समेव क्रीडेदेवं हैष संक्रीडतीति । यथैवासावितzceतोऽमुतश्चामुतMश्च
संप्रद्रवत इवोपशुप्यत इवोपस्कन्दमभिमृद्गात्यभिपातयेदेवं हैष इतश्चेतश्चा-
मुतश्च संप्रद्रवत इवोपशुप्यत इवोपस्कन्दमभिमृद्भात्यभिपातयति । यथैवासौ
राजानं वा राजपुरुषं वा निलयनं प्रायेदेवं हैवैष यन्ता निलयनं प्रापयतीति ।
ते होचुरपीदं साधीय इति । साधीय इति होचुः । ते ह तस्यैव
पन्थानमनुप्रातिष्ठन्नन्तं ह सायाहन्येवोपसंपादयामासुः ॥</p>
<p>तं यदावसायाश्वांस्तक्षापोह्यापागादथ बालिशा व्यलिष्ट । अहीदृशत् ।
कथमिवेति । ते होचुर्यथैतं काष्ठभारमानद्धमनुपश्यामस्तथैवावशो भूस्थ:
स्पन्दते । नेङ्गते न विवर्तते न च वीत इति । ते ह बालिशा ऊचुर्यदयमी-
दृगभूत् किमस्यापागादिति । तक्षैवेति । तथैवैतत् सौम्या इति । आत्मा वा
अस्य प्रचोदयिता करणान्यश्वाः शिरा नद्धयोऽस्थीन्युपग्रहा असृगाञ्जनं कर्म
प्रतोदो वाक्यं क्वाणनं त्वगुपानह इति । स यथा प्रचोदयित्रापोज्झितो
नेङ्गेन्न रुरुवीतैवं हैष प्राज्ञेनात्मनापोज्झितो न ब्रूते न चैत्यपि न श्वसत्यपि
पूयत्यपि श्वान उपधावन्त्यपि काकाः पतन्त्यपि गृध्रा आस्कन्दन्नपि शिवा
जिघत्सन्निति । ते तत एव द्रागिव व्यज्ञासिपुः । ते ह पादयोरेवाभिमर्श्य
बालिशानूचुः । न ह वाव नस्तद्येन निष्कुर्म इममेवेत्यञ्जलिं कृत्वोपास्थिष-
तेत्याह भगवान् छागलेयस्त इमे श्लोकाः</p>
<verse n="1">यथैतत्कृबरस्तक्ष्णापोज्झितो नेङ्गते मनाक् ।
परित्यक्तोऽयमात्मा नस्तद्वद्देहो विरोचते ॥ १ ॥</verse>
<pverse>यदस्य प्रdhaयश्चkrA युगमक्षो वरत्रिका ।
प्रतोदश्चर्मकील <ellipsis>. . . . .</ellipsis> ॥ २ ॥</pverse>
<trailer>एतावानेवोपलब्धः</trailer>
</page>

<
प्रतोदश्चर्मकील <ellipsis>. . . . .</ellipsis> ॥ २ ॥</
<trailer>एतावानेवोपलब्धः</trailer>
</page>