This page has been fully proofread once and needs a second look.

<page>
<ignore>
२४.
 
</ignore>
<ignore>
सामान्यवेदान्त-उपनिषदः
 
</ignore>
<ignore>
1
 
</ignore>
<p>
संपश्यध्वा एव मा प्रमदत । न होत्तमानधम उपनेतेति । ते होचुर्मैव

स्मोपनथा गतिस्तु त्वमिदिति ॥
 
</p>
<ignore>
1
 
</ignore>
<p>
स होवाच । कुरुक्षेत्र एवोपसमेत्य ये बालिशास्तानुपाध्वै । ते व

इदं प्रवक्ष्यन्तीति । ते ह तत एवोपसमेत्य कुरुक्षेत्रमुपजग्मुः । ते ह

बालिशानेवोपासन् । तानिम उपसीदत एव विदांचकुक्रुरिति कामुका इति ।

ते होचुर्यत्किमिव बालिशानुपासदत महाशाला वै महाश्रोत्रिया वर्षीयांसः

सन्तः यन्महाशाला महाश्रोत्रिया वर्षीयांसः कुरुक्षेत्रमध्यासत इति । ते

हान्योन्यस्याभिसमीक्षामासुः । ते हापश्यन्न हास्मान्मिथुचिदेवासाववोचद्वाबा-

लिशानेव चैतान्विचक्षतेति । ते होचुर्नमस्थायानतीव वचो रेचयिप्ष्यथ यदन्त-
as

र्नोऽ
साविह प्राहौयात् । यथैव तु स्मोपसन्ना अथानसूयवो यथोपश्रद्धिन इति ॥
 
</p>
<p>
ते होचुः । किं वा अस्मत्प्रतीच्छथेति । ते होचुः । नैमिषेऽमी

शुनकाः सत्रमासत । तेषामात्रेयोऽच्छावदः सर्वाण्येवावर्तयत् । यद्याज्या

यदनुवाक्या यत्प्रातरनुवाको यत्प्रउगं यदाज्यं यन्मरुत्वतीयमित्यथ यन्महा-

वीरसंभरणानि यदग्नेरभिवर्तनानि यद्राजाभिक्रयणानि यदभिषावित्राणि

यदौपयामानि यदुपमन्त्रणान्यथ यत्त्रिवृत्पंचदशः सप्तदश एकविंश इति । क्कावास्य

तदगाद्यदयं शवशयितमशयिष्टेति । (ने होचुर्नहासंवत्सरवासिनामनुब्रूयादिति

खलु नः पूर्वेऽन्वशिषन् । यत्संवत्सरं वत्स्यथाथ वेदिप्ष्यथेति । ते ह संवत्सरमूषुः ॥)
</p>
<p merge-next="true">
ततो ह बालिशा ऊचुरवात्त वा संवत्सरमिमे ब्राह्मणाः ।

हन्तैषामनुब्रवामेति । ते ह गृहीत्वैवैनान् पथोऽभिसमीयुः । ते ह संक्रीडत

एव कूरिणो रथकव्ट्यामविन्दन् । ) ते होचुः संपश्यध्वमिति । किं हीति ।
(

कूबरिणमेव सौम्या इति । तथेति । कथमिवेति । यथैवोपसृत्वरो वार्धि-

स्तिर्यगुल्ललन्तीभिरिव वीचिभि: शफाभिरेवोपस्कन्दन्नुत्प्लवेदेवं हैवैषोभि-

सृत्वराणामेव धुर्याणां चंक्रमतामरीणामुत्प्लवतीति । यथैवासौ प्रतितृत्वरेण
 
</p>
<ignore>
1
 
</ignore>
<ignore>
1
 
</ignore>
</page>