This page has not been fully proofread.

२४.
 
सामान्यवेदान्त-उपनिषदः
 
1
 
संपश्यध्वा एव मा प्रमदत । न होत्तमानधम उपनेतेति । ते होचुर्मैव
स्मोपनथा गतिस्तु त्वमिदिति ॥
 
1
 
स होवाच । कुरुक्षेत्र एवोपसमेत्य ये बालिशास्तानुपाध्वै । ते व
इदं प्रवक्ष्यन्तीति । ते ह तत एवोपसमेत्य कुरुक्षेत्रमुपजग्मुः । ते ह
बालिशानेवोपासन् । तानिम उपसीदत एव विदांचकुरिति कामुका इति ।
ते होचुर्यत्किमिव बालिशानुपासदत महाशाला वै महाश्रोत्रिया वर्षीयांसः
सन्तः यन्महाशाला महाश्रोत्रिया वर्षीयांसः कुरुक्षेत्रमध्यासत इति । ते
हान्योन्यस्याभिसमीक्षामासुः । ते हापश्यन्न हास्मान्मिथुचिदेवासाववोचद्वा-
लिशानेव चैतान्विचक्षतेति । ते होचुर्नमस्थानतीव वचो रेचयिप्यथ यदन्त-
asसाविह प्रायात् । यथैव तु स्मोपसन्ना अथानसूयवो यथोपद्धिन इति ॥
 
ते होचुः । किं वा अस्मत्प्रतीच्छथेति । ते होचुः । नैमिषेऽमी
शुनकाः सत्रमासत । तेषामात्रेयोऽच्छावदः सर्वाण्येवावर्तयत् । यद्याज्या
यदनुवाक्या यत्प्रातरनुवाको यत्प्रउगं यदाज्यं यन्मरुत्वतीयमित्यथ यन्महा-
वीरसंभरणानि यदग्नेरभिवर्तनानि यद्राजाभिक्रयणानि यदभिषावित्राणि
यदौपयामानि यदुपमन्त्रणान्यथ यत्त्रिवृत्पंचदशः सप्तदश एकविंश इति । क्कास्य
तदगाद्यदयं शवशयितमशयिष्टेति । (ने होचुर्नहासंवत्सरवासिनामनुब्रूयादिति
खलु नः पूर्वेऽन्वशिषन् । यत्संवत्सरं वत्स्यथाथ वेदिप्यथेति । ते ह संवत्सरमूषुः ॥)
ततो ह बालिशा ऊचुरवात्त वा संवत्सरमिमे ब्राह्मणाः ।
हन्तैषामनुब्रवामेति । ते ह गृहीत्वैवैनान् पथोऽभिसमीयुः । ते ह संक्रीडत
एव कूचरिणो रथकव्यामविन्दन् । ) ते होचुः संपश्यध्वमिति । किं हीति ।
( कूबरिणमेव सौम्या इति । तथेति । कथमिवेति । यथैवोपसृत्वरो वार्धि-
स्तिर्यगुल्ललन्तीभिरिव वीचिभि: शफाभिरेवोपस्कन्दन्नुत्प्लवेदेवं हैवैषोभि-
सृत्वराणामेव धुर्याणां चंक्रमतामरीणामुत्प्लवतीति । यथैवासौ प्रतितृत्वरेण
 
1
 
1