This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">छागलेयोपनिषत्</ignore>
<ignore lang="sa">.२३</ignore>
<p lang="sa">नमः । अमलेक्षणाय नमः । कमलेक्षणाय नमः । विश्वरूपाय नमः ।
महाविष्णवे नमः ॥</p>
<trailer lang="sa">इति चाक्षुषोपनिषत संपूर्णा</trailer>
<trailer lang="sa"><add>[अस्या उपनिषदः &quot; चक्षुरुपनिषत्, चक्षूरोगोपनिषत्, नेत्रोपनिषत्&quot; इति नामान्त-
राणि वर्तन्ते । ]</add></trailer>
<title text="CHAG" lang="sa">छागलेयोपनिषत्</title>
<p text="CHAG" lang="sa">ॐ ऋषयो वै सरस्वत्यां सत्रमासत । तेऽथ कवषमैलूषं दास्याः पुत्र
इति दीक्षाया आच्छिदन् । ते होचुः । अप वा एतदृग्यजुषादप साम्न इति ।
स होवाच । भगवन्तो यदिदं सत्रमाध्यै यदृचोऽधीध्वै यद्यजूंषि यत्सामानि
कस्यायं महिमेति । ते होचुर्ब्राह्मणा वाव समस्तेषामेवमिति ॥</p>
<p text="CHAG" lang="sa">स होवाच । यदिदमिच्छाचिदिच्छाचिदीक्षध्वै किं तद्येन ब्राह्मण इति ।
ते होचुर्यदिदमृग्यजुषैरेवोपवत्वन्नो जुहुवुर्यद्वैनमुपाघ्रासिषुर्यदुपानेषतैतद्ब्राह्मणा
इति । स हाविदूर एव शवशयितमात्रेयमच्छावदमुपदर्शयन्नुवाच । यदिद-
मृग्यजुषैरुपवत्वं जुहोपाघ्रासीदथोपानेष्ट नैतदत्यगादिति । किं तदिति होचुः ॥</p>
<ignore lang="sa">1</ignore>
<p text="CHAG" lang="sa" merge-next="true">स होवाच । नैमिषेऽमी शुनकाः सत्रमासत । तेषामात्रेयोऽच्छावदः
सर्वाण्यवावर्तयद्यद्याज्या यदनुवाक्या यत्प्रातरनुवाको यत्प्रउगं यदाज्यं
यन्मरुत्वतीयमित्यथ यन्महावीरसंभरणानि यदग्नेरभिवर्तनानि यद्राजाभि-
क्रयणानि यदभिषावित्राणि यदौपयामानि यदुपमन्त्रणान्यथ यत्त्रिवृत्पञ्चदशः
सप्तदश एकविंश इति । क्वास्य तदगादिति । तेहामुहन् । अथैते सर्व
एवोपसमेत्योचुरुप नो नयस्वेम एव त इति । स ह स्मयमान उवाच ।</p>
</page>