This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">
छागलेयोपनिषत्
 
</ignore>
<ignore lang="sa">
.२३
 
</ignore>
<p lang="sa">
नमः । अमलेक्षणाय नमः । कमलेक्षणाय नमः । विश्वरूपाय नमः ।
 

महाविष्णवे नमः ॥
 
</p>
<trailer lang="sa">
इति चाक्षुषोपनिषत संपूर्णा
 
</trailer>
<trailer lang="sa"><add>
[अस्या उपनिषदः "&quot; चक्षुरुपनिषत्, चक्षूरोगोपनिषत्, नेत्रोपनिषत् "&quot; इति नामान्त-

राणि वर्तन्ते । ]
 
</add></trailer>
<title text="CHAG" lang="sa">
छागलेयोपनिषत्
 
</title>
<p text="CHAG" lang="sa">
ॐ ऋषयो वै सरस्वत्यां सत्रमासत । तेऽथ कवषमैलूषं दास्याः पुत्र

इति दीक्षाया आच्छिदन् । ते होचुः । अप वा एतदृग्यजुषादप साम्न इति ।

स होवाच । भगवन्तो यदिदं सत्रमाध्यै यदृचोऽधीध्वै यद्यजूंषि यत्सामानि

कस्यायं महिमेति । ते होचुर्ब्राह्मणा वाव समस्तेषामेवमिति ॥
 
</p>
<p text="CHAG" lang="sa">
स होवाच । यदिदमिच्छाचिदिच्छाचिदीक्षध्वै किं तद्येन ब्राह्मण इति ।

ते होचुर्यदिदमृग्यजुषं षैरेवोपवत्वन्नो जुहुवुर्यद्वैनमुपाघ्रासिषुर्यदुपानेषतैतद्ब्राह्मणा

इति । स हाविदूर एव शवशयितमात्रेयमच्छावदमुपदर्शयन्नुवाच । यदिद -

मृग्यजुषैरुपवत्वं जुहोपाघ्रासीदथोपानेष्ट नैतदत्यगादिति । किं तदिति होचुः ॥
 
</p>
<ignore lang="sa">
1
 
</ignore>
<p text="CHAG" lang="sa">
स होवाच । नैमिषेऽमी शुनकाः सत्रमासत । तेषामात्रेयोऽच्छावदः

सर्वाण्यवावर्तयद्यद्याज्या यदनुवाक्या यत्प्रातरनुवाको यत्प्रउगं यदाज्यं

यन्मरुत्वतीयमित्यथ यन्महावीर संभरणानि यदग्नेरभिवर्तनानि यद्राजाभि-

क्रयणानि यदभिषावित्राणि यदौपयामानि यदुपमन्त्रणान्यथ यत्त्रिवृत्पञ्चदशः

सप्तदश एकविंश इति । काक्वास्य तदगादिति । तेहामुहन् । अथैते सर्व

एवोपसमेत्योचुरुप नो नयस्वेम एव त इति । स ह स्मयमान उवाच ।
 
</p>
</page>