This page has not been fully proofread.

छागलेयोपनिषत्
 
.२३
 
नमः । अमलेक्षणाय नमः । कमलेक्षणाय नमः । विश्वरूपाय नमः ।
 
महाविष्णवे नमः ॥
 
इति चाक्षुषोपनिषत संपूर्णा
 
[अस्या उपनिषदः " चक्षुरुपनिषत्, चक्षूरोगोपनिषत्, नेत्रोपनिषत् " इति नामान्त-
राणि वर्तन्ते । ]
 
छागलेयोपनिषत्
 
ॐ ऋषयो वै सरस्वत्यां सत्रमासत । तेऽथ कवषमैलूषं दास्याः पुत्र
इति दीक्षाया आच्छिदन् । ते होचुः । अप वा एतदृग्यजुषादप साम्न इति ।
स होवाच । भगवन्तो यदिदं सत्रमाध्यै यदृचोऽधी यद्यजूंषि यत्सामानि
कस्यायं महिमेति । ते होचुर्ब्राह्मणा वाव समस्तेषामेवमिति ॥
 
स होवाच । यदिदमिच्छाचिदिच्छाचिदीक्षध्वै किं तद्येन ब्राह्मण इति ।
ते होचुर्यदिदमृग्यजुषं रेवोपवत्वन्नो जुहुवुर्यद्वैनमुपाघ्रासिषुर्यदुपानेषतैतद्ब्राह्मणा
इति । स हाविदूर एव शवशयितमात्रेयमच्छावदमुपदर्शयन्नुवाच । यदिद -
मृग्यजुषैरुपवत्वं जुहोपाघ्रासीदथोपानेष्ट नैतदत्यगादिति । किं तदिति होचुः ॥
 
1
 
स होवाच । नैमिषेऽमी शुनकाः सत्रमासत । तेषामात्रेयोऽच्छावदः
सर्वाण्यवावर्तयद्यद्याज्या यदनुवाक्या यत्प्रातरनुवाको यत्प्रउगं यदाज्यं
यन्मरुत्वतीयमित्यथ यन्महावीर संभरणानि यदग्नेरभिवर्तनानि यद्राजाभि-
क्रयणानि यदभिषावित्राणि यदौपयामानि यदुपमन्त्रणान्यथ यत्त्रिवृत्पञ्चदशः
सप्तदश एकविंश इति । कास्य तदगादिति । तेहामुहन् । अथैते सर्व
एवोपसमेत्योचुरुप नो नयस्वेम एव त इति । स ह स्मयमान उवाच ।