This page has been fully proofread once and needs a second look.

<page>
<ignore>
२२.
 
</ignore>
<ignore>
सामान्यवेदान्त-उपनिषदः
 
</ignore>
<trailer>
चाक्षुषोपनिषत्
 
</trailer>
<p>
ॐ अथातश्चाक्षुषीं पठितसिद्धविद्यां चक्षूरोगहरां व्याख्यास्यामः ।

यच्चक्षूरोगाः सर्वतो नश्यंति । चाक्षुषी दीप्तिर्भविष्यतीति । तस्याश्चाक्षुषी-

विद्याया अहिर्बुध्न्य ऋषिः । गायत्री छन्दः । सूर्यो देवता । चक्षूरोगनिवृत्तये

जपे विनियोगः । ॐ चक्षुः चक्षुः चक्षुः तेजः स्थिरो भव । मां पाहि पाहि ।

त्वरितं चक्षूरोगान् शमय शमय । मम जातरूपं तेजो दर्शय दर्शय । यथाऽहं

अन्धो न स्यां तथा कल्पय कल्पय । कल्याणं कुरु कुरु । यानि मम

पूर्वजन्मोपार्जितानि चक्षुः प्रतिरोधक दुष्कृतानि सर्वाणि निर्मूलय निर्मूलय ।

ॐ नमः चक्षुस्तेजोदात्रे दिव्याय भास्कराय । ॐ नमः करुणाकराया-

मृताय । ॐ नमः सूर्याय । ॐ नमो भगवते सूर्यायाक्षितेजसे नमः ।

खेचराय नमः । महते नमः । रजमेसे नमः । तमसे नमः । असतो मा

सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । उष्णो

भगवाञ्छुचिरूपः । हंसो भगवान् शुचिरप्रतिरूपः । य इमां चक्षुष्मतीविद्यां

ब्राह्मणो नित्यमधीते न तस्याक्षिरोगो भवति । न तस्य कुले अन्धो भवति ।

अष्टौ ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति ॥
 
</p>
<verse n="1">
ॐ विश्वरूपं वृघृणिनं जातवेदसं
 

हिरण्मयं पुरुषं ज्योतिरूपं तपन्तम् ।
 

विश्वस्य योनिं प्रतपन्तमुग्रं
 

पुरः प्रजानामुदयत्येष सूर्यः ॥
 
</verse>
<p merge-next="true">
ॐ नमो भगवते आदित्याय अहोवाहिन्यहोवाहिनी स्वाहा । ॐ

वयः सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः । अपध्वान्तमूर्णुणूहि

पूर्द्धिंधि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् । पुण्डरीकाक्षाय नमः । पुष्करेक्षणाय
 
</p>
</page>