This page has been fully proofread once and needs a second look.

<page>
<ignore>
चतुर्वेदोपनिषत्
 
</ignore>
<verse>
पद्मकोशप्रतीकाशं लम्बत्याकोशसन्निभम् ।

हृदये चाप्यधोमुखं सतस्यत्यैशीत्कराभिश्च ॥
</verse>
<verse>
तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः ।

तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता ॥
</verse>
<verse>
तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः ।
 

स ब्रह्मा स ईशानः सोऽक्षरः परमः स्वराट् ॥
 
-२१
 
</verse>
<p>
य इमां महोपनिषदं ब्राह्मणोऽधीते अश्रोत्रियः श्रोत्रियो भवति ।

अनुपनीतः उपनीतो भवति । सोऽग्निपूतो भवति । स वायुप्तो भवति । स

सूर्यपूतो भवति । स सोमपूतो भवति । स सत्यपूतो भवति । स सर्वैर्देवैर्ज्ञातो

भवति । स सर्वेषु तीर्थेषु स्नातो भवति । तेन सर्वैः क्रतुभिरिष्टं भवति ।

गायत्र्याः षष्टिसहस्राणि जप्तानि भवन्ति । इतिहासपुराणानां सहस्राणि

जप्तानि भवन्ति । प्रणवानामयुतं जप्तं भवति । आचक्षुषः पङ्क्तिं पुनाति ।

आसप्तमात् पुरुषं पुनाति । जाप्येन अमृतत्त्वं च गच्छति अमृतत्वं च

गच्छति इत्याह भगवान् हिरण्यगर्भः ॥
 
</p>
<p>
देवा ह वै स्वर्गं लोकमायंस्ते देवा रुद्रमपृच्छंस्ते देवा ऊर्ध्वबाहवो

रुद्रं स्तुवन्ति । भूस्त्वादिमंर्मध्यं भुवस्तं स्वस्तं शीर्षं विश्वरूपोऽसि

ब्रह्मैस्त्वं द्विधा वित्रिधा शान्तिस्त्वं हुतमहुतं दत्तमदत्तं सर्वमसर्वे
वं
विश्वमविश्वं कृतमकृतं परमपरं परायणं च त्वम् । अपाम सोमममृता

अभूमागन्म ज्योतिरविदाम देवा नमस्याम धूर्तेरमृतं मृतं मर्त्यं च

सोमसूर्यपूर्वजगदधीतं वा यदक्षरं प्राजापत्यं सौम्यं सूक्ष्मं ग्राहं ग्राहेण भावं

भावेन सौम्यं सौम्येन सूक्ष्मं सूक्ष्मेण ग्रसति तस्मै महाग्रासाय नमः ॥
 
</p>
<trailer>
इति चतुर्वेदोपनिषत् संपूर्णा
 
</trailer>
</page>