This page has not been fully proofread.

चतुर्वेदोपनिषत्
 
पद्मकोशप्रतीकाशं लम्बत्याकोशसन्निभम् ।
हृदये चाप्यधोमुखं सतस्यत्यैशीत्कराभिश्च ॥
तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः ।
तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता ॥
तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः ।
 
स ब्रह्मा स ईशानः सोऽक्षरः परमः स्वराट् ॥
 
-२१
 
य इमां महोपनिषदं ब्राह्मणोऽधीते अश्रोत्रियः श्रोत्रियो भवति ।
अनुपनीतः उपनीतो भवति । सोऽग्निपूतो भवति । स वायुप्तो भवति । स
सूर्यपूतो भवति । स सोमपूतो भवति । स सत्यपूतो भवति । स सर्वैर्देवैर्ज्ञातो
भवति । स सर्वेषु तीर्थेषु स्नातो भवति । तेन सर्वैः क्रतुभिरिष्टं भवति ।
गायत्र्याः षष्टिसहस्राणि जप्तानि भवन्ति । इतिहासपुराणानां सहस्राणि
जप्तानि भवन्ति । प्रणवानामयुतं जप्तं भवति । आचक्षुषः पङ्क्तिं पुनाति ।
आसप्तमात् पुरुषं पुनाति । जाप्येन अमृतत्त्वं च गच्छति अमृतत्वं च
गच्छति इत्याह भगवान् हिरण्यगर्भः ॥
 
देवा ह वै स्वर्ग लोकमायंस्ते देवा रुद्रमपृच्छंस्ते देवा ऊर्ध्वबाहवो
रुद्रं स्तुवन्ति । भूस्त्वादिमंध्यं भुवस्तं स्वस्तं शीर्ष विश्वरूपोऽसि
ब्रह्मैस्त्वं द्विधा विधा शान्तिस्त्वं हुतमहुतं दत्तमदत्तं सर्वमसर्वे
विश्वमविश्वं कृतमकृतं परमपरं परायणं च त्वम् । अपाम सोमममृता
अभूमागन्म ज्योतिरविदाम देवा नमस्याम धूर्तेरमृतं मृतं मर्त्यं च
सोमसूर्यपूर्वजगदधीतं वा यदक्षरं प्राजापत्यं सौम्यं सूक्ष्मं ग्राहं ग्राहेण भावं
भावेन सौम्यं सौम्येन सूक्ष्मं सूक्ष्मेण ग्रसति तस्मै महाग्रासाय नमः ॥
 
इति चतुर्वेदोपनिषत् संपूर्णा