2026-02-08 22:28:28 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२०.</ignore>
<ignore>सामान्यवेदान्त - उपनिषदः</ignore>
<verse>नमो नमश्च मन्त्राश्च व्रतानि च नमो नमः ।
एतत् सकलं ब्रह्मप्रणवस्तुतिः काण्वशाखे पारयेति ॥</verse>
<trailer>इति इतिहासोपनिषत् संपूर्णा</trailer>
<trailer>श्राद्धकाले विशेषेण पितॄणां दत्तमक्षयम् ।
मनोजव आयमानो आया <ellipsis>. . . .</ellipsis> तरत्परम् ॥
दिवं सुपर्णं गत्वा या सोमं व <ellipsis>. . . .</ellipsis> महत् ।
सुपर्णोऽसि गरुत्मान् दिवं गच्छ सुवः पत ॥
यस्तिलज्योतिस्त्रिंशत् वृषादर्विसुवः पत ॥</trailer>
<title text="CA">चतुर्वेदोपनिषत्</title>
<p text="CA">ॐ अथातो महोपनिषदमेव तदाहुः । एको ह वै नारायण आसीत् ।
न ब्रह्मा न ईशानो नापो नाग्निः न वायुः नेमे द्यावापृथिवी न नक्षत्राणि न
सूर्यः । स एकाकी नर एव । तस्य ध्यानान्तस्स्थस्य ललाटात् स्वेदोऽपतत् । ता
इमा आपः । ता एते नो हिरण्यमयमन्नम् । तत्र ब्रह्मा चतुर्मुखोऽजायत । स
ध्यातपूर्वामुखो भूत्वा भूरिति व्याहृतिः गायत्रं छन्द ऋग्वेदः । पश्चिमामुखो
भूत्वा भूरिति व्याहृतिस्त्रैष्टुभं छन्दः यजुर्वेदः । उत्तरामुखो भूत्वा भुवरिति
व्याहृतिर्जागतं छन्दः सामवेद: । दक्षिणामुखो भूत्वा जनदिति व्याहृतिरानुष्टुभं
छन्दोऽथर्ववेदः ॥</p>
<verse text="CA" n="1">सहस्रशीर्षं देवं सहस्राक्षं विश्वसंभवम् ।
विश्वतः परमं नित्यं विश्वं नारायणं हरिम् ॥</verse>
<verse text="CA">विश्वमेवेदं पुरुषं तं विश्वमुपजीवति ।
ऋषिं विश्वेश्वरं देवं समुद्रे तं विश्वरूपिणम् ॥</verse>
</page>