This page has been fully proofread once and needs a second look.

<page>
<ignore>
२०.
 
</ignore>
<ignore>
सामान्यवेदान्त - उपनिषदः
 
</ignore>
<verse>
नमो नमश्च मन्त्राश्च व्रतानि च नमो नमः ।
 

एतत् सकलं ब्रह्मप्रणवस्तुतिः काण्वशाखे पारयेति ॥
 
</verse>
<trailer>
इति इतिहासोपनिषत् संपूर्णा
 
</trailer>
<trailer>
श्राद्धकाले विशेषेण पितॄणां दत्तमक्षयम् ।
 

मनोजव आयमानो आया
 
<ellipsis>. . . .</ellipsis> तरत्परम् ॥
दिवं सुपर्णं गत्वा या सोमं व
 
<ellipsis>.
 
तरत्परम् ॥
 
. . . .</ellipsis> महत् ।
 

सुपर्णोऽसि गरुत्मान् दिवं गच्छ सुत्रःवः पत ॥

यस्तिलज्योतिस्त्रिंशत् वृषादर्विसुवः पत ॥
 
</trailer>
<title text="CA">
चतुर्वेदोपनिषत्
 

 
</title>
<p text="CA">
ॐ अथातो महोपनिषदमेव तदाहुः । एको ह वै नारायण आसीत् ।

न ब्रह्मा न ईशानो नापो नाग्निः न वायुः नेमे द्यावापृथिवी न नक्षत्राणि न

सूर्यः । स एकाकी नर एव । तस्य ध्यानान्तस्स्थस्य ललाटात् स्वेदोऽपतत् । ता

इमा आपः । ता एते नो हिरण्यमयमन्नम् । तत्र ब्रह्मा चतुर्मुखोऽजायत । स

ध्यात पूर्वामुखो भूत्वा भूरिति व्याहृतिः गायत्रं छन्द ऋग्वेदः । पश्चिमामुखो

भूत्वा भूरिति व्याहृतिस्त्रैष्टुभं छन्दः यजुर्वेदः । उत्तरामुखो भूत्वा भुवरिति

व्याहृतिर्जागतं छन्दः सामवेद: । दक्षिणामुखो भूत्वा जनदिति व्याहृतिरानुष्टुभं

छन्दोऽथर्ववेदः ॥
 
</p>
<verse text="CA">
सहस्रशीर्षं देवं सहस्राक्षं विश्वसंभवम् ।
 

विश्वतः परमं नित्यं विश्वं नारायणं हरिम् ॥
</verse>
<verse text="CA">
विश्वमेवेदं पुरुषं तं विश्वमुपजीवति ।
 

षिषिं विश्वेश्वरं देवं समुद्रे तं विश्वरूपिणम् ॥
 
</verse>
</page>