This page has been fully proofread once and needs a second look.

<page>
<ignore>
इतिहासोपनिषत्
 
</ignore>
<verse>
दिने दिने गयातुल्यं भरण्यां गयपञ्चके ।

दशतुल्यं व्यतीपाते पक्षमध्ये तु विंशतिः ॥
</verse>
<verse>
द्वादश्यां शतमित्याहुरमावास्यां सहस्रकम् ।

अश्वयुक्छुक्लपक्षस्य द्वितीयामयुतं फलम् ॥
</verse>
<verse>
अन्नेन वाऽथवा येन शाकमूलफलेन वा ।

तस्मात् सर्वप्रयत्नेन कुर्याच्छ्राद्धं महालयम् ॥
</verse>
<verse>
शून्या प्रेतपुरी तत्र यावद्वृश्चिकदर्शनात् ।

वृश्विका दर्शनं यान्ति निराशाः पितरो गताः ॥
</verse>
<verse>
ततः स्वभवनं यान्ति शापं दत्वा सुदारुणम् ।

अहोवन्नवाच्यमिति केचित् पितरो वदन्ति ॥
</verse>
<verse>
अपुत्राश्चैवापशवो लोके सन्ति च निन्दिताः ।

रौरवे नरके घोरे यावदाभूतसंप्लवात् ॥
</verse>
<verse>
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।

यजेत वाऽश्वमेधं वा लीलं वा वृषमुत्सृजेत् ॥
</verse>
<verse>
श्वेतः खुरविषाणाभ्यां मुखे पुच्छ्रेछे च पाण्डुरम् ।

रोहितो यस्तु वर्णेन स लीलो वृष उच्यते ॥
 
</verse>
<p>
गौरीं वा वरयेत् कन्यां चरेद्वा श्रवणे
 
"
 
<ellipsis>. . . .</ellipsis> न्ति जपति ॥
 
१९
 
</p>
<p>
अथ संहितायां फलमवाप्नोतीत्याह भगवान् ब्रह्मा । अष्टौ

ब्राह्मणान् सम्यक् ग्राहये न्मेधावी भवेत् । वर्षशतं च जीवेत । षडङ्गं च

वेदमवाप्नुयात् ॥
 
</p>
<verse>
वृद्धो वसूनि पुरोवाच पुत्रेभ्यः परमं निधिम् ।
 
तो

एतद्वो
धनमार्याणां मन्त्राश्चैव व्रतानि च ॥
 
</verse>
</page>