This page has been fully proofread once and needs a second look.

<page>
<ignore>
१८
 
</ignore>
<ignore>
सामान्यवेदान्त - उपनिषदः
 
</ignore>
<verse>
यावदुष्णं भवत्यन्नं तावद्भुञ्जीत वाग्यतः ।

पितरस्तावदश्नन्ति यावन्नोक्ता हविर्गुणाः ॥
</verse>
<verse>
हविर्गुणा न वक्तव्याः पितरो यावदर्पिताः ।

तृप्तैस्तु पितृभिः पश्चाद्वक्तव्यं शोभनं हविः ॥
</verse>
<verse>
य इमां देवीमिह वेद सर्
 
वं
सर्वेषु भूतेषु प्रतिष्ठितानाम् ।

सती नैनं पश्यन्ति हृदयं न शोकाः
 

न पुत्रदाराः पशुचोदमाहितम् ॥
 
</verse>
<verse>
अपां रसो मधुनस्सर्पिषश्च क्षीरस्य चान्नस्य च संस्थितस्य ।

एते रसानां सरमेसेन श्राद्धं प्राप्नुवन्ति वाग्यतानां संयुतानाम् ॥
</verse>
<p>
उदेहि सूर्यं वरं वृणीष्वेति राजोवाच पञ्चेमानि रत्नानि गौर्मेऽजस्रं

दुह्यति । हविर्मेऽजस्रं विलूहति । त्विषिर्मेऽजस्रं पिनष्टि । रथो मे सर्वान्

समुद्रान् संयाति । आदित्यवर्णे इमे मणिकुण्डले इति । अथो ह्येवमेवैषामेकं

वृणीष्वेति । ब्राह्मण उवाच । यावत्संपृच्छसीति भार्योयां समपृच्छत् ।

हविर्गृहाणेति भार्योवाच । पुत्रं समपृच्छत् । रथं गृहाणेति पुत्र उवाच ।

कन्यां समपृच्छत् । मणिकुण्डले इति कन्योवाच । दासीं समपृच्छत । दृषदं

गृहाणेति दास्युवाच । अनुपेत्योवाच हविर्भार्या रथं पुत्रः कन्या मणिकुण्डले

दासी दृदमिच्छति । गामहं शिविबिसप्तमे इति । सर्वाण्येवमेवैनं ददामीति

होवाच वृषादर्विस्तदिदमितिहासो ब्रह्मादित्यः पुरोगाय । पुरोगः काश्यपाय ।

काश्यपो भरद्वाजाय । भरद्वाजः बहुभिः अनेकमहाराजाय । ततः प्रच्य <ellipsis>. .

. .</ellipsis>
धनपतेर्द्विजः ब्राह्मणकुले जातस्म <ellipsis>. . . .</ellipsis> भवति ॥
</p>
<verse>
सप्तजन्मकृतात्पापान्मुच्यते यस्तु पर्वभिः ।

कन्यागते यदा सूर्ये तिष्ठन्ति पितरो गृहे ॥
 
</verse>
</page>