2026-02-08 07:39:40 by ambuda-bot
This page has not been fully proofread.
१८
सामान्यवेदान्त - उपनिषदः
यावदुष्णं भवत्यन्नं तावद्भुञ्जीत वाग्यतः ।
पितरस्तावदश्नन्ति यावन्नोक्ता हविर्गुणाः ॥
हविर्गुणा न वक्तव्याः पितरो यावदर्पिताः ।
तृप्तैस्तु पितृभिः पश्चाद्वक्तव्यं शोभनं हविः ॥
य इमां देवीमिह वेद सर्व
सर्वेषु भूतेषु प्रतिष्ठितानाम् ।
सती नैनं पश्यन्ति हृदयं न शोकाः
न पुत्रदाराः पशुचोदमाहितम् ॥
अपां रसो मधुनस्सर्पिषश्च क्षीरस्य चान्नस्य च संस्थितस्य ।
एते रसानां सरमेन श्राद्धं प्राप्नुवन्ति वाग्यतानां संयुतानाम् ॥
उदेहि सूर्य वरं वृणीष्वेति राजोवाच पञ्चेमानि रत्नानि गौर्मेऽजस्रं
दुह्यति । हविर्मेऽजस्रं विहति । त्विषिर्मेऽजस्रं पिनष्टि । रथो मे सर्वान्
समुद्रान् संयाति । आदित्यवर्णे इमे मणिकुण्डले इति । अथो ह्येवमेवैषामेकं
वृणीष्वेति । ब्राह्मण उवाच । यावत्संपृच्छसीति भार्यो समपृच्छत् ।
हविर्गृहाणेति भार्योवाच । पुत्रं समपृच्छत् । रथं गृहाणेति पुत्र उवाच ।
कन्यां समपृच्छत् । मणिकुण्डले इति कन्योवाच । दासीं समपृच्छत । दृषदं
गृहाणेति दास्युवाच । अनुपेत्योवाच हविर्भार्या रथं पुत्रः कन्या मणिकुण्डले
दासी दृपदमिच्छति । गामहं शिविसप्तमे इति । सर्वाण्येवमेवैनं ददामीति
होवाच वृषादर्विस्तदिदमितिहासो ब्रह्मादित्यः पुरोगाय । पुरोगः काश्यपाय ।
काश्यपो भरद्वाजाय । भरद्वाजः बहुभिः अनेकमहाराजाय । ततः प्रच्य..
धनपतेर्द्विजः ब्राह्मणकुले जातस्म .... भवति ॥
सप्तजन्मकृतात्पापान्मुच्यते यस्तु पर्वभिः ।
कन्यागते यदा सूर्ये तिष्ठन्ति पितरो गृहे ॥