2026-02-08 22:03:57 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>U 3
</ignore>
<ignore>इतिहासोपनिषत्
।
</ignore>
<verse>समर्घं धनमुद्धृत्य महार्घेघं यः प्रयच्छति ।
स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः ॥
</verse>
<verse>अग्रे माहिषिकं दृष्ट्वा मध्ये तु वृषळीपतिम् ।
अन्ते वार्धुषिकं दृष्टा निराशाः पितरो गताः ॥
</verse>
<verse>श्वित्री कुष्ठी तथा चैव कुनखी श्यावदन्तकः ।
रोगी हीनातिरिक्ताङ्गः काणः पंगुः पुनर्भवः ॥
</verse>
<verse>अवकीर्णी कुण्डगोळावायुधी परदारगः ।
भृतकाध्यापकः क्लीचःबः कन्यादूष्यभिशस्तकः ॥
</verse>
<verse>मित्रध्रुक् पिशुनश्चैव विक्रयी वेदनिन्दकः ।
मातापितृ गुरुत्यागी कुण्डाशी वृषळात्मजः ॥
</verse>
<verse>परपूर्वापरस्तेन शूद्रजः श्राद्धकर्मणि ।
रजस्त्रीसंगमी चैव परोपद्रवकारिणः ॥
</verse>
<verse>देवब्राह्मणघाती च तेषां द्रव्यापहारिणः ।
एते गुणा न वक्तव्या: श्राद्धकर्म बहिष्कृताः ॥
</verse>
<verse>भ्रातन्वा भोजयेच्छ्राद्धं पुत्रं वाऽपि गुणान्वितम् ।
आत्मा च वाऽपि भुञ्जीत न विप्रं वेदवर्जितम् ॥
</verse>
<verse>तेभ्यः श्राद्धं तु दत्तं चेत्तच्छ्राद्धं निष्फलं भवेत् ।
निराशाः पितरस्तस्य यान्ति देवाः सहर्षिभिः ॥
</verse>
<verse>मदमोहेन यः शूद्र्यां पुत्रमुत्पाद्यते द्विजः ।
यावत्तिष्ठेत् स वै भूमौ तावत्तिष्ठेत् सुदारुणे ॥
</verse>
<verse>क्षीरं वा दधि वा तैलं तक्रमाज्यं मधूनि च ।
एतेषां विक्रयी विप्रो रौरवं नरकं व्रजेत् ॥
</verse>
<ignore>१७
</ignore>
</page>
<ignore>U 3
<ignore>इतिहासोपनिषत्
।
<verse>समर्घं धनमुद्धृत्य महार्
स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः ॥
<verse>अग्रे माहिषिकं दृष्ट्वा मध्ये तु वृषळीपतिम् ।
अन्ते वार्धुषिकं दृष्टा निराशाः पितरो गताः ॥
<verse>श्वित्री कुष्ठी तथा चैव कुनखी श्यावदन्तकः ।
रोगी हीनातिरिक्ताङ्गः काणः पंगुः पुनर्भवः ॥
<verse>अवकीर्णी कुण्डगोळावायुधी परदारगः ।
भृतकाध्यापकः क्ली
<verse>मित्रध्रुक् पिशुनश्चैव विक्रयी वेदनिन्दकः ।
मातापितृ
<verse>परपूर्वापरस्तेन शूद्रजः श्राद्धकर्मणि ।
रजस्त्रीसंगमी चैव परोपद्रवकारिणः ॥
<verse>देवब्राह्मणघाती च तेषां द्रव्यापहारिणः ।
एते गुणा न वक्तव्या: श्राद्धकर्म