This page has not been fully proofread.

U 3
 
इतिहासोपनिषत्
 

 
सम धनमुद्धृत्य महार्घे यः प्रयच्छति ।
सवै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः ॥
अग्रे माहिषिकं दृष्ट्वा मध्ये तु वृषळीपतिम् ।
अन्ते वार्धुषिकं दृष्टा निराशाः पितरो गताः ॥
वित्री कुष्ठी तथा चैव कुनखी श्यावदन्तकः ।
रोगी हीनातिरिक्ताङ्गः काणः पंगुः पुनर्भवः ॥
अवकीर्णी कुण्डगोळावायुधी परदारगः ।
भृतकाध्यापकः क्लीचः कन्यादूष्यभिशस्तकः ॥
मित्रध्रुक् पिशुनश्चैव विक्रयी वेदनिन्दकः ।
मातापितृ गुरुत्यागी कुण्डाशी वृषळात्मजः ॥
परपूर्वापरस्तेन शूद्रजः श्राद्धकर्मणि ।
रजस्त्रीसंगमी चैव परोपद्रवकारिणः ॥
देवब्राह्मणघाती च तेषां द्रव्यापहारिणः ।
एते गुणा न वक्तव्या: श्राद्धकर्म बहिष्कृताः ॥
भ्रातन्वा भोजयेच्छ्राद्धं पुत्रं वाऽपि गुणान्वितम् ।
आत्मा च वाऽपि भुञ्जीत न विप्रं वेदवर्जितम् ॥
तेभ्यः श्राद्धं तु दत्तं चेत्तच्छ्राद्धं निष्फलं भवेत् ।
निराशाः पितरस्तस्य यान्ति देवाः सहर्षिभिः ॥
मदमोहेन यः शूद्र्यां पुत्रमुत्पाद्यते द्विजः ।
यावत्तिष्ठेत् स वै भूमौ तावत्तिष्ठेत् सुदारुणे ॥
क्षीरं वा दधि वा तैलं तक्रमाज्यं मधूनि च ।
एतेषां विक्रयी विप्रो रौरवं नरकं व्रजेत् ॥
 
१७