This page has not been fully proofread.

१६
 
सामान्यवेदान्त-उपनिषदः
 
आरभ्य कुतपे श्राद्धं कुर्यादारोहणं बुधः ।
विधिज्ञा विधिमास्थाय रौहिणीं नैव लङ्घयेत् ॥
रौहिणीं लङ्घयेद्यस्तु ज्ञानादज्ञानतोऽपि वा ।
आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठते ॥
यातुधानाश्च रक्षांसि पिशाचा असुरास्तथा ।
एते हरन्ति वै श्राद्धं देवं यत्र निवर्तयेत् ॥
राक्षसं भवति श्राद्धं दैवं यत्र निवर्तयेत् ।
तत्र रक्षांसि पैशाचा न च विद्वेष्टि यो जनः ॥
पुरो देवाः प्रपद्यन्ते पश्चाद्दैवं विसर्जयेत् ।
पक्षैस्तु कुक्कुटो हन्ति निकर्षेण तु सूकरः ।
आगतं गतया श्वानं चक्षुषा वृषळीपतिः ॥
यस्य देशं न जानाति नामगोत्रे त्रिपूरुषम् ।
कन्यादानं पितृश्राद्धं नमस्कारं च वर्जयेत् ॥
यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम् ।
स वै दुर्ब्राह्मणो नाम सर्वकर्मबहिष्कृतः ॥
अष्टवर्षा भवेत् कन्या नववर्षा तु रोहिणी ।
दशवर्षा भवेत् गौरी ह्यत ऊर्ध्वं रजस्वला ॥
पितृगेहेषु या कन्या रजः पश्यत्यसंस्कृता ।
सा कन्या वृषळी नाम तत्पतिर्वृषळीपतिः ॥
वृषळीपतिभुक्तानि श्राद्धानि च हवींषि च ।
पितरो न प्रतिगृह्णन्ति दाता स्वर्गं न गच्छति ॥
महिषीत्युच्यते भार्या भगेनोपार्जितं धनम् ।
तद्द्रव्यमुपजीवन् यः स वै माहिषिकः स्मृतः ॥