This page has been fully proofread once and needs a second look.

<page>
<ignore>
इतिहासोपनिषत्
 
</ignore>
<verse>
ब्राह्मणानां सहस्रेषु भुक्त्वा तु नव सप्त च ।
 

भवन्ति ज्ञायिके भूत्वा ध्यायिके च न संशयेत् ॥
</verse>
<verse>
कुक्षौ तिष्ठति यस्यान्नं वेदाभ्यासेन जीर्यते ।
 

कुलं तारयते तेषां दशपूर्वीवां दशापराम् ॥
 
1
 
१५
 
</verse>
<p>
ब्राह्मणो द्विपदां वरः । चतुष्पदां गौरुत्तमा । लोहानां काञ्चनं वरम् ।

तिलेषु तैलं दधिनीव सर्पिः । यदापस्त्स्रोतस्सरण्योरिवाग्निः । एवमात्मात्मनि

जायते ॥
 
दर्शयन् ॥
 
</p>
<verse>
सत्येनैनं मनसा साधु पश्यति सत्येनैनं मनसा वाचं नयति ॥
 
</verse>
<verse>
प्राङ्मुखाश्च सुरा हव्यं पितरश्चाप्युदङ्मुखाः ।
 

प्रतिगृह्णन्ति संबाधमग्निना ब्राह्मणेन च ॥
 
</verse>
<verse>
वेदाध्यायीति यो विप्रः सततं ब्राह्मणः स्थितः ।
 

साचार: साग्निहोत्री च सोऽग्निर्वेवै कव्यवाहनः ॥
 
</verse>
<p>
विकिरं प्रकिरं दद्याद्विकिरं ह वै प्रकिरं भुञ्जीत । तृप्तिरूपाणि
 

दर्शयन् ॥</p>
<verse>
परिश्रिते त्वेव दद्याद्द्द्ध्लीका हि पितरः स्मृताः ।
 

क्रव्यादाः पितरस्सर्वे तिलज्योतिर्धृतप्रियाः ॥
</verse>
<p>
देशकालपात्रमन्त्राष्टशौचप्साः कृष्णपक्षक्षयोत्सवाः ॥
</p>
<verse>
उच्छिष्टं शिवनिर्माल्यं वमनं मृतकर्पटम् ।

श्राद्धे सप्त पवित्राणि दौहित्रः कुतपस्तिलाः ॥
</verse>
<verse>
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ।

त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्सराः ॥
</verse>
<verse>
दिवसस्याष्टमे भागे यदा मन्दायते रविः ।
 

स कालः कुतंपो नाम पितॄणां दत्तमक्षयम् ॥
 
</verse>
</page>