This page has not been fully proofread.

इतिहासोपनिषत्
 
ब्राह्मणानां सहस्रेषु भुक्त्वा तु नव सप्त च ।
 
भवन्ति ज्ञायिके भूत्वा ध्यायिके च न संशयेत् ॥
कुक्षौ तिष्ठति यस्यान्नं वेदाभ्यासेन जीर्यते ।
 
कुलं तारयते तेषां दशपूर्वी दशापराम् ॥
 
1
 
१५
 
ब्राह्मणो द्विपदां वरः । चतुष्पदां गौरुत्तमा । लोहानां काञ्चनं वरम् ।
तिलेषु तैलं दधिनीव सर्पिः । यदापस्त्रोतस्सरण्योरिवाग्निः । एवमात्मात्मनि
जायते ॥
 
दर्शयन् ॥
 
सत्येनैनं मनसा साधु पश्यति सत्येनैनं मनसा वाचं नयति ॥
 
प्राङ्मुखाश्च सुरा हव्यं पितरश्चाप्युदङ्मुखाः ।
 
प्रतिगृह्णन्ति संबाधमग्निना ब्राह्मणेन च ॥
 
वेदाध्यायीति यो विप्रः सततं ब्राह्मणः स्थितः ।
 
साचार: साग्निहोत्री च सोऽग्निर्वे कव्यवाहनः ॥
 
विकिरं प्रकिरं दद्याद्विकिरं ह वै प्रकिरं भुञ्जीत । तृप्तिरूपाणि
 
परिश्रिते त्वेव दद्याद्द्द्लीका हि पितरः स्मृताः ।
 
क्रव्यादाः पितरस्सर्वे तिलज्योतिर्धृतप्रियाः ॥
देशकालपात्रमन्त्राष्टशौचप्साः कृष्णपक्षक्षयोत्सवाः ॥
उच्छिष्टं शिवनिर्माल्यं वमनं मृतकर्पटम् ।
श्राद्धे सप्त पवित्राणि दौहित्रः कुतपस्तिलाः ॥
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ।
त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्सराः ॥
दिवसस्याष्टमे भागे यदा मन्दायते रविः ।
 
स कालः कुतंपो नाम पितॄणां दत्तमक्षयम् ॥