2026-02-08 07:39:40 by ambuda-bot
This page has not been fully proofread.
१४
सामान्यवेदान्त-उपनिषदः
स्त्रीशूद्रबालिशादिभ्य उच्छिष्टं न प्रदापयेत् ।
यदि दद्यात् प्रमादेन न तद्गच्छति तान् पितॄन् ॥
आहिताग्निः सदा पात्रं सदा पात्रं तु वेदवित् ।
पात्राणामुत्तमं पात्रं शुद्धान्नं यस्य नोदरे ॥
पुनर्भोजनमध्वानं भाराध्ययनसङ्गमम् ।
दानं प्रतिग्रहं होमं श्राद्धभुक्चाष्ट वर्जयेत् ॥
दन्तधावनताम्बूलं नखकेशनिकृन्तनम् ।
कर्ता चैव तु पूर्वेद्युर्भोक्ता चैव परेऽहनि ॥
दन्तधावनताम्बूलं क्षौराभ्यङ्गनभोजनम् ।
रत्यौषधपरान्नं च श्राद्धकर्ता विवर्जयेत् ॥
श्राद्धकर्ता परश्राद्धं यस्तु भुञ्जीत लोलुपः ।
नष्टं भवति तच्छ्राद्धं रौरवं नरकं व्रजेत् ॥
निमन्त्रितेऽध्वानगते पुनर्भुक्त्वा तु वायसम् ।
करोति कर्म यत् गृध्रः ग्रामसूकरसङ्गमात् ॥
प्रतिग्रहेषु दारिद्र्यं दानं निष्फलमेव च ।
होमे तु कुष्ठरोगी स्यात् स्वाध्यायैर्मृत्युमाप्नुयात् ॥
यस्यानृचस्तु भुङ्क्ते तस्य विद्धि ब्रह्मैव वित्तं पुरुषस्य केवलम् ।
धर्मः स्वधायां चरते ददाति च सत्यं रसः स्वादुतमो रसानाम् ।
सत्यं श्रैष्ठयं व्याहृतीनां तथैव प्रज्ञानं सप्तमं जीवनानाम् ॥
ब्राह्मणातिक्रमो नास्ति मूर्खो मन्त्रं विवर्जयेत् ।
ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥
यः शतं च सहस्राणां सहस्रं श्राद्ध आचरेत् ।
एकस्मान्मन्त्रवित् पूतः सर्वमर्हति ब्राह्मणः ॥