2026-02-08 07:39:38 by ambuda-bot
This page has not been fully proofread.
१२.
सामान्यवेदान्त - उपनिषदः
शताहावशतशरः शतशक्रऋजीषिणाम् ।
शतं ब्रह्म तपस्विनां कूपोऽरण्यस्य तिष्ठति ।
ऋतेनापिहिता गुहा श्रुतेनापिहिता गुहा ।
स्मृतेनापिहिता गुहा शमेनापिहिता गुहा ॥
दमेनापिहिता गुहा सत्येनापिहिता गुहा ।
।
आत्मनापिहिता गुहा ब्रह्मणापिहिता गुहा ॥
ब्रह्मन्निधिं मनसा वेदयन्तः पश्यन्तो गुह्यमपरं परं च ।
अध्वगा अध्वसु पारयिष्णव ब्राह्मणास्तु सदृशाः सूर्येण ॥
यः च्छ्राद्धानि कुरुतेऽसंगतानि न देवयानेन पथा स याति ।
परिमुक्तं पिप्पलं बन्धनादिव स्वर्गाल्लोकाच्च्यवतेऽश्राद्धमित्रः ॥
यो यज्ञस्य प्रसाधनः तन्तुर्देवेप्वाहुतः । तमाहुतमशीमहि ।
नावेद विन्मनुतेदं बृहन्तम् । सर्वानुभुमात्मान संपराये । एष नित्यो महिमा
ब्राह्मणस्य । न कर्मणा वर्धते नो कनीयान् । तस्यैवात्मा पदवित्तं विदित्वा ।
न कर्मणा लिप्यते पापकेन ॥
अग्निहोत्रं बलीवृद्धाः काले चातिथिरागतः ।
बालाश्च कुलवृद्धाश्च निर्दहन्त्यवमानिताः ॥
संभोजनी नाम पिशाचभिक्षा नैषा पितॄन् गच्छति नोत देवान् ।
इहैव सा चरति क्षीणपुण्या शालान्तरे गौरिव नष्टवत्सा ॥
शूद्रायां सृजते रेतः श्राद्धं भुक्त्वाऽथ यो द्विजः ।
स शूद्रयोनिसञ्छिन्नं रेतसा सिञ्चते पितॄन् ॥
यः काममोहितः शूद्रयां पुत्रमुत्पाद्यते द्विजः ।
यावदुत्पाद्यते भूमौ तावत्तिष्ठेत् सुदारुणे ॥