2026-02-08 07:40:32 by ambuda-bot
This page has not been fully proofread.
२३६
वैष्णव- उपनिषदः
साधनं तद्भजनमेव ज्ञानं तद्भक्ता एवं ज्ञातिः तद्भक्ता एव कुलं एवं
रसलीलाप्रपन्नो भवति । गृहादिधर्मान् त्यक्त्वा वर्णाश्रमधर्मान् त्यक्त्वा
जातिकुलधर्मान् त्यक्त्वा मोक्षधर्मान् त्यक्त्वा सन्यासधर्मान् त्यक्त्वा
देशकालकर्मस्वभावसंसिद्धान् धर्मान् त्यक्त्वा रसलीलामभ्यसेत् । रसलीलायाः
सेवावधिं कथय येन विधिना महालीलायाः प्राप्तिर्भवति । तद्भक्तानां
दर्शनं भवेत् । स होवाच । रसलीलाया भजनं त्रिविधात्मकम् । एकं
ध्यानमयम् । प्रतिकुञ्जं प्रतिवृक्षं ध्यानापन्नो भवेत् । रात्रौ दिवा रसिकानन्दं
श्रीराधिकया सह हृदि चिन्तयमानः सखीभावेन भावापन्नो भवेत् ।
तदनुभावेन पुल्लिङ्गं विधूय महालीलायां लयलीयमानो भवेत् । द्वितीयं
भजनप्रकारं शृणुत । येन भजनेन रसिकानन्दः श्रीराधिकया सह
दृष्टिपथमा पद्येत योऽश्ममयं वा धातुमयं वा रसिकानन्दस्वरूपं श्रीराधिकया
युतं विधाय शय्याभोजनशृङ्गारै राजोपचारैः स्नेहभावेन भजनं करोति
अहोरात्रं तद्भावेनापन्नो भजनं करोति स तां लीलां प्राप्नोति । ये
रसिकानन्दोपासका भक्तास्तेषां सेवायां व्रतधारणम् । अहो भक्तानां
सेवास्तु दुर्लभतराः । येषां हृदि निश्चय आपन्नस्तेषां श्रीरसिकानन्दः
श्रीराधिकया सह प्रसन्नो भवति । भक्तानां सेवास्तु अत्यन्तदुर्लभा भवन्ति ।
ये निष्कर्ममार्गिणो भक्तिमार्ग केवलमापन्नास्ते सेव्याः पूज्या एव भवन्ति ।
ये अन्यधर्मं त्यक्त्वा रसिकानन्दसेवकास्ते भक्ता नान्ये । भक्ताः
सुसेवमाना भवन्ति । तस्मात्सुसेवमाना भक्ताः कृपां कुर्वन्ति । साधूनां
समचित्तानां कृपया महालीलाया दर्शनं भवति । तस्मात् रसिकानन्दं
हृदि स्थाप्य साधूनां सङ्गेन बृन्दावनरहस्य मार्गानुसारेण सुसेवमानो भवति ।
अतिरसमग्ना भक्ता नान्यं विदन्ति । अहो पुनर्महालीलाया वर्णनं श्रुत्वा
वयं न तृप्यामः । शृणुत पुत्राः । वनविहारलीला पूर्व नारायणेन लक्ष्म्यमे