This page has not been fully proofread.

सामरहस्योपनिषत्
 
1
 
२३५
 
त इह संसारे विचरन्ति । ये पितन् यजन्ति ते पितृलोकं प्राप्नुवन्ति ।
देवान् ये यज्ञकर्मणा यजन्ति ते देवलोकं स्वकर्मोपार्जितं यान्ति । ये ब्राह्मणाः
ब्रह्मवर्चसमुपासमानास्ते ब्रह्मलोकं प्राप्नुवन्ति । गायत्रीं य उपासते ते सूर्य-
मण्डले लयं यान्ति । येषां मध्ये शैवाः शिवोपासकास्तेषां प्रमादेनापि संभाषणं
न कुर्यात् । ये कैवल्यधर्मरतास्तेषां संभाषणं स्पर्शनं च कृतं चेत्तर्हि सवासाः
जलमाविशेत् । अहो रुद्रोपासका ये तमोधर्मरतास्तेषां संभाषणं स्पर्शनं च कृतं
चेत्तर्हि सवासा जलमाविशेत् । यक्षोपासकाः सदा त्याज्या: । गणपतिदुर्गायाः
भजनभेदा अनेकशः सन्ति । तान् ये भजन्ति तेषां संभाषणं स्पर्शनं च कृतं
चेत्तर्हि सवासाजलमाविशेद्र सिकानन्दोपासकः । कर्मकाण्डोपासका रसिका-
नन्दमार्ग न जानन्ति । जैनबौद्ध चार्वाकमीमांसकवेदान्तन्यायपातञ्जलमतान्त-
राणि तेषां सिद्धान्तं कुर्वन्ति । ये भ्रान्ता भजनमार्गमविदुषः पण्डितमानिन-
स्तेषां संभाषणं स्पर्शनं च न कुर्यात् । विष्णुभजनरता नारायणोपासका:
श्रवणकीर्तनस्मरणवन्दनरता मत्स्यकच्छपवराहनृसिंहवामनपरशुरामरामोपासका
वैष्णवास्तेऽपि तं लोकं न जानन्ति । तस्मात्तेषां सङ्गस्त्याज्यः । विष्णुभक्ताः
ज्ञानवैराग्ययुक्ता अनन्याश्रययुक्तास्तेऽपि तं मार्गे न जानन्ति । सूक्ष्मतर -
मार्गो ब्रह्मादिभिर्नारदादिभि: रुद्रादिभिः सृष्टिकर्तृभिः प्रजापतिभिरप्य-
गम्यः । तस्मात्तया श्रीराधिकयानुगृहीतास्तं रसं जानन्ति नान्ये ।
यदा यस्य देवतान्तरभजनं भवति वैष्णवेषु विद्वेषो भवति तान्
रसिकानन्दपुरुषोत्तमो न स्पृशेत् । अहो रसिकानन्दोपासकानां क्रियाः
शृणुत । ये मनसि भजने सुनिश्वयास्तल्लीलोपासकाः सत्कथाक्षिप्तमानसाः
तल्लीलोपासकानां सङ्गेन कथाकीर्तनासक्तांस्ते तत्सेवातद्भावेन शोकमोह-
भयोद्वेगरहिता अमत्सरा अहंभावरहिता ज्ञानवैराग्यसहिता बृन्दावन-
लीलोपासका भवन्ति । रसलीलायां निमग्नानां तेषां तद्भजनमेव