2026-02-08 07:40:31 by ambuda-bot
This page has not been fully proofread.
२३४
'वैष्णव- उपनिषदः
पञ्चविंशद्योजनायते सुशोभाढये मणिज्योत्स्नाभिः संवेष्टिते सखीनां यूथानि
यत्र क्रीडां कुर्वन्ति तत्र परितो निकुञ्जानां श्रेणयः सूक्ष्मलतान्तरैः
संवेष्टिता भवन्ति । तत्र मध्ये एकं रत्नासनं सुखसंपूरितं सुरतानन्दस्थानं
भवति ।
यत्र प्रेमवती स्नेहवती गुणवती उत्कण्ठावती उत्साहवती
भोगवती कलावती गानवती मनोरमा सुरतानन्दा सुखसंवलिता निद्रा-
संवलिता निःशङ्का लज्जागतत्रपा सुभगा शृङ्गारवती संभोगवती भावशुद्धा
एता अन्याश्च सख्यस्तत्स्थानं सेवमाना भवन्ति । निरन्तरं रासकेलिकौतुकेन
नृत्यपरा सुगन्धकलावती संगीतज्ञा अङ्गसंवलिता रागज्ञा गुणज्ञा एताः
अन्याश्च सिद्धान्तस्थानं सेवमाना भवन्ति । तत्र विहङ्गमानां पङ्क्तयो
नानारूपैः कलशब्दैः सङ्गायन्त्यो भवन्ति । कचित् सखीमण्डले ताः
रासक्रीडां कुर्वन्ति । क्वचित् कुञ्जान्तरे पुष्पपल्लवैः रचितशय्यायां क्रीडां
कुर्वन्ति । कचिन्नानापुष्पैरङ्गप्रत्यङ्गेषु परस्परं शृङ्गारं कुर्वन्ति । क्वचित्
पुष्पमालाभिरङ्गप्रत्यङ्गैः शृङ्गाररसं कुर्वन्ति । कचित्कुञ्जान्तरे शृङ्गाररसं
कृत्वा सुखं संसेवमाना भवन्ति । ताः कन्याः श्रीराधिकारसिकं दृष्टा
अत्यन्तमेव मुमुहुः स्तुतिं चक्रुः । अतितरां नम्राः कन्याः प्रश्रयावनताः
नमश्चक्रुः विनयभावापन्ना बभूवुः । तया श्रीराधिकया स्वस्वरूपं प्रदत्तम् ।
तासां महालीलायां योग्यता प्रदत्ता । अहो सत्सङ्गमाहात्म्यं केन वर्ण्यते ।
दर्शनात्स्पर्शनादालापाद्भोजनाच्छ्यनादासनाद्भोजनोच्छिष्टकृपाप्रसादात् रसि-
कानन्देन सहितायाः श्रीराधिकायाः कृपा भवति । अहो रसिका-
नन्दोपासकानां लक्षणानि वढ़ येनाहं सतां स विचरामि । अहो
श्रुतमहालीलाः ! ये निरन्तरं सेवमाना भक्ता वेदमार्गकर्मातिरिक्ता भवन्ति
ते रसिकानन्दमार्गमाचार्योक्तमधीत्य यो बृन्दावनोक्तमार्गः सखीभिरुपासितः
तासां मार्गे प्रपन्ना भवन्ति । अहो नानास्मृत्युक्तान् धर्मान् ये कुर्वन्ति