This page has not been fully proofread.

२३०
 
वैष्णव- उपनिषदः
 
भवति । ताः सख्या भावापन्नाः साधनसिद्धा भवन्ति । ता ऊचुः । तासं
साधनं किं येन साधनेन वसन्तलीलायाः स्थानं प्राप्तम् । अहो भक्तानां
रसमार्गीयाणां पुण्या रसमार्गिणी कथा निःश्रेयसाय भवति । येषां स्नेहमार्ग-
धर्मकर्मरहितकेवलमनसा वृत्तिः श्रीराधिकायां गतिरतिभावो भवेत् ते एव
तां लीलां प्राप्नुवन्ति । तस्मात्ताभिर्यत्साधनं कृतं तत्सर्वं कथय । अहो ताः
सख्यः वैवस्वतमनोः पुत्र्य आसन् । ताः कन्याः पितुर्गृहे निरन्तरं क्रीडमानाः
बभूवुः । एकरूपा एकस्थिता एकप्राणा एकभावापन्ना बभूवुः । अतिगुण-
गणनारताः पितृवत्सला भवन्ति । तस्य राज्ञो गृहे एकदा नारदः समागत: ।
ताः कन्या नारदं दृष्ट्वा प्रणिपात पुरस्सराः ।
तद्रूपमद्भुतं दृष्टं जटामकुटमण्डितम् ॥
वस्त्रालंकरणैर्युक्तं वीणावादनतत्परम् ।
कृताञ्जलिपुटाः सर्वाः स्थितास्तं चोपतस्थिरे ॥
पप्रच्छ्रुस्तं तथाभूतं विनयान्नयकोविदाः ।
भगवन् सर्वभूतानां हिताय भुवनेऽसि ॥
भवादृशा महाभागा लोकानां च हिते रताः ।
 
शरणागतदीनानां कृपां कुर्वन्ति साधवः ॥
 

 

 
इति संप्रार्थितो नारदः प्रसन्नो बभूव । भोः पुत्र्यः को भवतीनां
मनोऽभिलाषः ? तत्सर्वं विस्तरशो ब्रूत । नारदेनैवं चोदिताः कन्याः पुनः
प्रोचुः । पितुर्गृहे भावापन्नैर्भक्तैः सङ्गीयमानोऽयं व्रजलोकः । त्वं विस्तरंशो
ब्रूहि तम् । श्रुतमात्रोऽयं रसलीलां ददाति । तस्मात्तत्स्थानं रसिकानन्देन
श्रीराधिकया सह सेवितं वर्णय । नो मनोऽभिलाषो भवति । यदि कृपा
स्यात्तर्हि तल्लोकविस्तारं वद । पुनर्नारद उवाचेदं तासां मनोऽभिलाषं ज्ञात्वा ।
शृणु संख्यो रहस्यम् । न कदाचिद्वचनीयम् । तत्स्थानं कोटिसूर्यप्रतीकाशं