2026-02-08 21:38:19 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>इतिहासोपनिषत्
</ignore>
<verse>मनसा वाचं नयति चक्षुषा मीयते जगत् ।
भूतस्य कर्णौ श्रोतारावन्नं प्राणेन संमितम् ॥
</verse>
<verse>अन्नं प्राणो वृषादर्विः पर्जन्यो दत्तवान्महत् ।
अग्निश्च हव्यवाहनस्तदिदं गाव इद्धविः ॥
</verse>
<verse>वित्तं बन्धुः प्रजातन्तुः कर्मरूपं बृहत्सखा ।
प्रज्ञा प्रतिष्ठा तन्तूनामिष्टापूर्तेः परायणम् ॥
११
</verse>
<verse>सत्यं वदन्त्यनृतमुद्वहन्ति क्षीरं पिबन्ति मधु ते पिबन्ति ।
सोमं पिबन्त्यमृतेन सार्धं मृत्योः परस्तादमृता भवन्ति ॥
</verse>
<verse>ये ब्राह्मणा ब्रह्मचर्यं चरन्त्यथो खल्वाहुर्वेदसंमितोऽयमितिहासः ॥
</verse>
<verse>धर्मेमं चरति नाधर्ममं सत्यं वदति नानृतम् ।
दीर्घघं पश्यति मा ह्रस्वं परं पश्यति माऽपरम् ॥
</verse>
<verse>ऋचो ह यो वेद स वेद देवान् यजूंषि यो वेद स वेद यज्ञम् ।
सामानि यो वेद स वेद सर्ववं यो मानसं वेद स वेद ब्रह्म ॥
</verse>
<p>यः क्रौद्धव्यंयेन क्रुद्धस्तिष्ठति सोऽतिवाचं च दीक्षयति । योऽतिवाचं
नयति स वै सर्वं द्विजः खलु मानसं वेदेति नः श्रुतम् ॥
</p>
<verse>तपोऽवधिः परमा ब्राह्मणस्य श्रद्धा माता पितरंसत्यमाहुः ।
योग आत्मा चरणमस्य बन्धुर्दमः प्रतिष्ठा विदुषो न भूमिम् ॥
</verse>
<verse>दुःखं जन्म जरा दुःखं दुःखं मृत्युः पुनः पुनः ।
संसारमण्डलं दुःखं पच्यन्ते यत्र जन्तवः ॥
</verse>
<verse>यो ब्राह्मणः पापकृत् मन्त्रकृच्च स जीवति ।
ब्रह्मण्यो ब्रह्मकृच्छश्वत् ब्रह्मलोके महीयते ॥
</verse>
<verse>तृणानि हीच्छन्ति कुशत्वमेव वृक्षा यूपत्वं पशवश्च गोत्वम् ।
सर्वाः प्रजा ब्राह्मणत्वं नरेन्द्र न ब्राह्मणत्वात् परमस्ति किञ्चित् ॥
</verse>
</page>
<ignore>इतिहासोपनिषत्
<verse>मनसा वाचं नयति चक्षुषा मीयते जगत् ।
भूतस्य कर्णौ श्रोतारावन्नं प्राणेन संमितम् ॥
<verse>अन्नं प्राणो वृषादर्विः पर्जन्यो दत्तवान्महत् ।
अग्निश्च हव्यवाहनस्तदिदं गाव इद्धविः ॥
<verse>वित्तं बन्धुः प्रजातन्तुः कर्मरूपं बृहत्सखा ।
प्रज्ञा प्रतिष्ठा तन्तूनामिष्टापूर्तेः परायणम् ॥
११
<verse>सत्यं वदन्त्यनृतमुद्वहन्ति क्षीरं पिबन्ति मधु ते पिबन्ति ।
सोमं पिबन्त्यमृतेन सार्धं मृत्योः परस्तादमृता भवन्ति ॥
<verse>ये ब्राह्मणा ब्रह्मचर्यं चरन्त्यथो खल्वाहुर्वेदसंमितोऽयमितिहासः ॥
<verse>धर्
दीर्
<verse>ऋचो ह यो वेद स वेद देवान् यजूंषि यो वेद स वेद यज्ञम् ।
सामानि यो वेद स वेद सर्
<p>यः क्रौद्धव्