This page has not been fully proofread.

२२६
 
वैष्णव- उपनिषदः
 
रपनससहकारभद्राक्षेक्षुरसैः शर्करादयः पिष्टरसपूर्णतया निकुञ्जदेव्या सं-
सेव्यन्ते । ललिता रङ्गवती भोगवती प्रेमोत्कण्ठा सुरतानन्दा सुरतरसको-
विदा चेति सख्यः श्रीराधिकया दत्तं प्रसादं भुञ्जते । तत्रैकं रसिकानन्द-
शृङ्गारस्थानम् । यत्र पारिजातकवृक्षाः सदा पुष्पैः प्रफुल्लिता नम्रा भवन्ति ।
तत्र सुगन्धसुवर्णलताभिः संवलितं भवति । सुगन्धमुक्तालताभिः पारि-
जातकवृक्षा ग्रथितनिकुञ्जतां प्राप्नुवन्ति । तत्र एको भ्रमरो देववाण्या
चातुर्येण मानस्थाने राधिकां प्रति दूतत्वं करोति । स भ्रमरो रसिकानन्दं प्रति
प्रियो भवति । स भ्रमरः स्वचातुर्येण श्रीराधिकाया मानापकरणं करोति ।
 

 
भ्रमरोऽत्यन्तमनोहर चातुर्यासीमगुणज्ञः स्वभावसंसिद्धः साधनसिद्धो
भवति । स भ्रमरो रसिकानन्दस्य दृतो भवति । निरन्तरं श्रीराधिकायाः
मानलीलायां सहकारी भवति । तस्माद्रसिकानन्दस्यातितरां वल्लभो भवति ।
तेत्र भ्रमरा मनोहरशब्देन सङ्गीतरसं गमयन्ति । तत्रैकः शुकः साधनसिद्धः
श्रीराधिकाया मानस्थाने मन्दारनिकुञ्ज निवसति । तेन शुकेन भ्रमरचातुर्य
निरीक्ष्य तस्या निकुञ्जदेव्याः कृपां निरीक्ष्य अत्याश्चर्य प्रपेदे । स भ्रमरस्तेन
शुकेन पृष्टः अहो अले त्वं कः ? केन साधनेन त्वयदं रूपं प्राप्तम् ? कथं
श्री रसिकानन्दस्य श्रीराधिकाया दूतत्वं प्राप्तः ? अलिरुवाच । अहो शुक त्वं
पूर्व कोऽसि ? केन साधनेनेदं लीलास्थानं प्राप्तम् ? शुक उवाच । अहं पूर्व
ब्राह्मणोऽस्मि । विष्णोरुपासककुलोत्पन्न एकात्मभावेन मम मनो हरिं भजमानं
भवति । एकस्मिन् वासरेऽस्मि ब्रह्मलोकं गतः । तत्रानन्यमार्गीया भक्ताः
मया दृष्टाः । रसमार्गीया भक्ता मया दृष्टाः । तेषां सङ्गमेन मया
निकुञ्जलीला अनुभूताः । तत्रारिष्टे श्रीराधाकृष्णपुष्करिण्युद्भवां मृत्तिकां
भक्षयता तत्र निरन्तर क्रीडास्थलं मया श्रुतं पूर्वम् । अस्या मृत्तिकाया:
माहात्म्यं महालीलायाः प्राप्तेः कारणम् । भ्रमरो वदति । त्वया किं