This page has not been fully proofread.

सामरहस्योपनिषत्
 
२२३
 
आच्छादिता वृक्षा निकुञ्जतां प्राप्नुवन्ति । तत्र मणिजटितानि रमणस्थानानि
कोटिशो राजन्ते । यत्र ललिता विशाखा सुभगा कलावती मनोरमा
चन्द्रकला मोहिनी गतिरतिविलासिनी मोहिनी शास्त्रगीतज्ञा गुणज्ञा
भोगज्ञा भोगप्रदा कामप्रदा कामदा केलिदा सुरतकलाकोविदा संभोगसुखदा
गतत्रपा निःशङ्करतिदा सुतरां सुरतान्तनिद्रिता अन्याः कोटिशः सख्यः
संविराजमाना भवन्ति । दश मन्दिराणि भक्ष्यभोज्यैः संपूरितानि भवन्ति ।
यत्र घृतपक्कानि पक्वान्नान्यनेकशो विविधरसयुक्तानि सन्ति । तेषु
मन्दिरेषु कटुतिक्तकषायमाधुर्यरसा भोगवत्या सख्या कृताः संपूर्णाः प्रतिक्षणं
नूतना भवन्ति । अन्ने सिद्धान्नभोगापूपपायसपकान्नभागाः शाकविविध-
षड्ससंवलिता अन्नपूर्णया सख्या संपादितास्तया निकुञ्जदेव्या सेव्य-
माना भवन्ति । वस्त्रवत्या सख्या संपादितान्यनेकशो वस्त्राणि समयो-
चितानि मनोरमाणि सन्ति । भूषणभूप्या संख्या रचितानि भूषणानि
तस्या निकुञ्जदेव्याः प्रीणनाय तेषु मन्दिरेषु शय्याभोजनशृङ्गाराः कोटिशः
सन्ति । तत्रान्ये शृङ्गारादिभोगा भोगवत्या कृतास्तेषु मन्दिरेषु तस्याः
सुखार्थं भवन्ति । तत्र चतुःश्रेणीनि दशदशमन्दिराणि सन्ति । तेषु
मन्दिरेषु शय्याभोजनशृङ्गारा अनेकधा रचिता भवन्ति । तेषु मन्दिरेषु
सखीनां समूहाः पृथक् पृथक् कार्येषु संलग्ना भवन्ति । तेषां मध्ये रास-
मण्डलं तेजोमयमानन्दमयं तस्याः श्रीराधिकायाः सुखार्थं वृन्दानाम्ना
संख्या तया संपादितं भवति । तेषु मन्दिरेषु सखीनां एका योगमाया
सखी सर्वासां सखीनां सर्वत्र एकभावं करोति । तस्मिन् स्थाने सुनादाः
सख्यः सुनादेन सप्तस्वराणि श्रावयन्ति । तत्र ब्रह्माण्डे या: सिद्धयोऽणिमा-
दयस्तत्र सखीरूपं विधाय तां श्रीराधिकां सेवमाना भवन्ति । सुमेरुहेमा-
विमलयाद्याः पर्वता अन्ये ये निधयो देवानां सन्ति ते निधयस्तस्या: