2026-02-08 07:40:29 by ambuda-bot
This page has not been fully proofread.
२२०
वैष्णव- उपनिषदः
मुखाच्छूतोऽयं धर्मः । शृणुत सर्वा यैषा सृष्टिस्समुत्पद्यते । क्षराक्षराभ्या-
मधिकः पुरुषोत्तमसंज्ञितो भक्तिगम्य आनन्दमयो लोकः संविराजते । तस्य
पुरुषोत्तमस्य उत्तरकटाक्षात्समुत्पन्ना जीवाः । तेषां स्नेहमार्गोऽयमापद्यते ।
दक्षिणकटाक्षादुत्पन्नाः कर्मजडा आसुरा अल्पोपासका भवन्ति । तस्मिन्
रसिकानन्दस्वरूपात्पार्श्वात् द्वे एव मूर्ती प्रकटिते । प्रथमा भक्तिसुन्दरी
प्रकटिता । पश्चान्मायादासी प्रकटिता । तयोः प्रथमा अत्यन्तवल्लभा
आस्त । भक्तेस्सकाशादुत्पन्ना जीवाः स्नेहमार्गीया भवन्ति । मायायाः
समुत्पन्ना आसुराः कर्मजडा अन्यधर्मरता एव भवन्ति । यदा कर्ममार्गे
रतिरसतां ते आसुरा भवन्ति । साउन केस्त्रिविधैव भवति । एका
कर्ममिश्रिता देवानामृषीणामुपासकान भवतितम् । श्रवणकीर्तन-
स्मरणवन्दनसेवनोपकरणदास्यभावेनात्मसमर्पणम् । ते जीवा भक्तिमार्गीयाः
एवैते । स एवायं पुरुषः स्वरमणाो स्वस्वरूपं प्रकटितवान् । तद्रूपं
रससंवलितमानन्दरसोऽयं पुराविदो वदन्ति । सर्वे आनन्दरसा यस्मात्
प्रकटिता भवन्ति । आनन्दरूपेषु पुरुषोऽयं रमते । स एवायं पुरुषः
स्वयमेव समाराधनतत्परोऽभूत् । तस्मात् स्वयमेव समाराधनमकरोत् । अतो
लोके वेदे श्रीराधा गीयते । तत्स्वरूपात्सृष्टिर्या समुत्पन्ना सा रसिकानन्देन
सुसेव्यतां प्राप्ता आसीत् । प्रमाणप्रमेयादस्मान्मार्गादतिरिक्तोऽयं मार्गो
रसात्मकः । य एतन्मार्गे आसक्तास्ते रसरूपिणीं सृष्टिमन्तरुत्पद्यमानाः
भवन्ति । लक्ष्मीनारायणीयोऽयं संवादः । निरन्तरं नारायणो वैकुण्ठे रमया
रहस्यलीलां सङ्गायमानोऽभवत् । रमारमणो वैकुण्ठे नारायणः स्वयं
ध्यानापन्नोऽभवत् । तदा लक्ष्मी: रहस्युपासमाना तम्य तामवस्थां निरीक्ष्य
प्रश्रयावनता पप्रच्छ । किं ध्यायसि ? किं जपसि ? परं कौतूहलं
मे मनसि वर्तते । त्वत्तः परं को देवः ? को लोकः ? यस्य त्वं ध्यायसे