2026-02-08 07:40:29 by ambuda-bot
This page has not been fully proofread.
२१८
वैष्णव- उपनिषदः
शुभं हरिमन्दिरं मध्यपद्मं कण्ठेतुलसी शङ्खचक्रं गदा बाहुगोपीचन्दनचर्चनं
परं गतिः जीवोत्तमस्य । ब्रह्मा शक्तिर्महादेवो जन्यते पुरुषोत्तमात् । ॐ
आपोऽमृतमर्त्यस्य मर्त्योऽपश्यत् यस्तु जन्यते पुरुषोत्तमात् । अमृतात्
प्राणाश्चाहो मम जायन्ते पुरुषोत्तमात् । मनसि निषण्णः श्रीप्राणाय प्रज्ञानाय
स्वराट् पुरुषोत्तमः । श्रीकृष्णभगवान् नारायणः परमात्मा पुरुषोत्तमः
त्रिगुणरहितः स्वयम् । कथम् ? पुरुष एवेदं सर्वम् ॥
इति श्रीकृष्णपुरुषोत्तमसिद्धान्तोपनिषत् समाप्ता
सङ्कर्षणोपनिषत्
1
अथ तद्विष्णोः इति शान्तिः । अथ सङ्कर्षणोपनिषदुच्यते । शेषो ह
वै वासुदेवात्सङ्कर्षणो नाम जात आसीत् । सोऽकामयत प्रजाः सृजेयेति ।
ततः प्रद्युम्न्नसंज्ञं मन आसीत् । तस्मादहंकारनामाऽनिरुद्धः । ततो हिरण्य-
गर्भोऽजायत । तस्माद्दश प्रजापतयो मरीच्यादय: स्थाणुदक्ष कर्दमप्रियव्रतो-
तानपादादयोऽप्यजायत । तेभ्यः सर्वाणि भूतानि च । तस्माच्छेषादेव
सर्वाणि समुत्पद्यन्ते । तस्मिन्नेव प्रलीयन्ते । स एव बहुधा जायमानः
सर्वान् परिपाति । स एव काद्रवेयो व्याकरणज्यौतिषादिशास्त्राणि निर्मिमाणो
बहुभिर्मुमुक्षुभिरुपास्यमानोऽखिलां भुवमेकस्मिन् शीणि सिद्धार्थवद्धार -
यमाणस्सर्वैर्मुनिभिः संप्रार्थ्यमानः सहस्रशिखर मेरोश्शिरोभिर्वारयमाणो
महावायोरहंकारं निराचकार । स भगवान् युगसन्धिकाले स्वेन रूपेण
युगे युगे तेनैव जायमानः स्वयमेव सौमित्रिरैक्ष्वाके [वंशे जा]यमा [नो]
रक्षांसि सर्वाणि विनिघ्नन् चातुर्वर्ण्यधर्मान् प्रवर्त [यति । ] स एव
भगवान् युगसन्धिकाले [शरदभ्रसं] निकाशो रौहिणेयो वासुदेवः सर्वाणि