2026-02-08 22:21:02 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१०</ignore>
<ignore>सामान्यवेदान्त-उपनिषदः</ignore>
<title>इतिहासोपनिषत्</title>
<p>ॐ वृषादर्विकुलꣳ ह वै शिबिकुलं बभूव । तस्यायमितिहासः कुल-
विद्या बभूव । तद्यो ह स्मेममधीते स ह स्मै राजा भवति । स
किंचित्प्राप्यान्तर्हितः । सोऽब्रवीत् । यो मामितिहासं ग्राहयेत् । वरमस्मै
दद्यामिति । ततो ब्राह्मणः संयोगं संयुयुजे । तमादित्यात् पुरुषो भास्करवर्णो
निष्क्रम्य स एनं ग्राहयाञ्चकार । तमपृच्छत् । कोऽसीति वा वृषादर्विरिति ।
तस्माद्य इममितिहासमधीते । आदित्यलोके स कामचारो भवति । तस्माद्य
इममितिहासमुपनीतो माणवको गृह्णीयात् । गृहीत्वाऽथ ब्राह्मणाञ्छ्रावयेत् ।
मेधावी भवेत् । वर्षशतं च जीवेत् । षडङ्गं च वेदमवाप्नुयात् । तस्माद्य
इममितिहासं पठन् पितृभ्य उदकाञ्जलिं दद्यात् । अपूपकूला नद्यः
सर्पिष्पायसकर्दमा उपतिष्ठेरन् । तस्माद्य इममितिहासं पठन् पितृभ्यः श्राद्धं
दद्यात् । तद्यथा स्थूलया गयाश्राद्धं कृतं भवेत् । स्वधा सह पितॄणाम् ।
एवमस्य पितॄणामनन्ता तृप्तिर्भवति । य एवं वेद । सोऽयमितिहासः
धन्यः पुण्यः पुत्रीयः पशव्य आयुष्यः स्वर्ग्यः । सार्वकालिकसर्वभय-
प्रमोक्षणः । नाधिभ्यो भयं भवति । न चोरेभ्यः । न रक्षोभ्यः । नाध्वनि
प्रमीयते । नाप्सु प्रमीयते । नाग्नौ प्रमीयते । नाप्सु न शस्त्रेण वध्यते ।
नानपत्यः प्रमीयते । सायं प्रयुञ्जानो दिवसकृतं पापं नाशयति । प्रात:
प्रयुञ्जानो रात्रिकृतं पापं नाशयति । सायंप्रातः प्रयुञ्जानः पापोऽपापो
भवति । पापभाजो हि श्रोतॄणामनसूयावतां पापाꣳश्चापक्रामन्ति । एकशतं
चान्ये साधव आगमाः । एतावती परिभाषा । अत ऊर्ध्वं विद्यात् ।</p>
<verse n="1">जिह्वा रसं विजानाति हृदयं वेदयत् प्रियम् ।
चक्षुर्दिष्टः साक्षिभागो मनसा साधु पश्यति ॥</verse>
</page>