This page has been fully proofread once and needs a second look.

<page>
<ignore>
१०
 
</ignore>
<ignore>
सामान्यवेदान्त-उपनिषदः
 
</ignore>
<title>
इतिहासोपनिषत्
 
</title>
<p>
ॐ वृषादर्विकुल ह वै शिबिकुलं बभूव । तस्यायमितिहास :सः कुल-

विद्या बभूव । तद्यो ह स्मेममधीते स ह स्मै राजा भवति । स

किंचित्प्राप्यान्तर्हितः । सोऽब्रवीत् । यो मामितिहासं ग्राहयेत् । वरमस्मै

दद्यामिति । ततो ब्राह्मणः संयोगं संयुयुजे । तमादित्यात् पुरुषो भास्करवर्णो

निष्क्रम्य स एनं ग्राहयाञ्चकार । तमपृच्छत् । कोऽसीति वा वृषादर्विरिति ।

तस्माद्य इममितिहासमधीते । आदित्यलोके स कामचारो भवति । तस्माद्य

इममितिहासमुपनीतो माणवको गृह्णीयात् । गृहीत्वाऽथ ब्राह्मणाञ्छ्रावयेत् ।

मेधावी भवेत् । वर्षशतं च जीवेत् । षडङ्गं च वेदमवाप्नुयात् । तस्माद्य

इममितिहासं पठन् पितृभ्य उदकाञ्जलिं दद्यात् । अपूपकूला नद्यः

सर्पिष्पायसकर्दमा उपतिष्ठेरन् । तस्माद्य इममितिहासं पठन् पितृभ्यः श्राद्धं

दद्यात् । तद्यथा स्थूलया गयाश्राद्धं कृतं भवेत् । स्वधा सह पितॄणाम् ।

एवमस्य पितॄणामनन्ता तृप्तिर्भवति । य एवं वेद । सोऽयमितिहास :
सः
धन्यः पुण्यः पुत्रीयः पशव्य आयुप्ष्यः स्वर्ग्यः । सार्वकालिकसर्वभय-

प्रमोक्षणः । नाधिभ्यो भयं भवति । न चोरेभ्यः । न रक्षोभ्यः । नाध्वनि

प्रमीयते । नाप्सु प्रमीयते । नाभौग्नौ प्रमीयते । नाप्सु न शस्त्रेण वध्यते ।

नानपत्यः प्रमीयते । सायं प्रयुञ्जानो दिवसकृतं पापं नाशयति । प्रात:

प्रयुञ्जानो रात्रिकृतं पापं नाशयति । सायंप्रातः प्रयुञ्जानः पापोऽपापो

भवति । पापभाजो हि श्रोतॄणामनसूयावतां पापाꣳश्चापक्रामन्ति । एकशतं

चान्ये साधव आगमाः । एतावती परिभाषा । अत ऊर्ध्वं विद्यात् ।
</p>
<verse>
जिह्वा रसं विजानाति हृदयं वेदयत् प्रियम् ।

चक्षुर्दिष्टः साक्षिभागो मनसा साधु पश्यति ॥
 
</verse>
</page>