This page has not been fully proofread.

१०
 
सामान्यवेदान्त-उपनिषदः
 
इतिहासोपनिषत्
 
ॐ वृषादर्विकुल ५ ह वै शिबिकुलं बभूव । तस्यायमितिहास : कुल-
विद्या बभूव । तद्यो ह स्मेममधीते स ह स्मै राजा भवति । स
किंचित्प्राप्यान्तर्हितः । सोऽब्रवीत् । यो मामितिहासं ग्राहयेत् । वरमस्मै
दद्यामिति । ततो ब्राह्मणः संयोगं संयुयुजे । तमादित्यात् पुरुषो भास्करवर्णो
निष्क्रम्य स एनं ग्राहयाञ्चकार । तमपृच्छत् । कोऽसीति वा वृषादर्विरिति ।
तस्माद्य इममितिहासमधीते । आदित्यलोके स कामचारो भवति । तस्माद्य
इममितिहासमुपनीतो माणवको गृह्णीयात् । गृहीत्वाऽथ ब्राह्मणाञ्छ्रावयेत् ।
मेधावी भवेत् । वर्षशतं च जीवेत । षडङ्गं च वेदमवाप्नुयात् । तस्माद्य
इममितिहासं पठन् पितृभ्य उदकाञ्जलिं दद्यात् । अपूपकूला नद्यः
सर्पिष्पायसकर्दमा उपतिष्ठेरन् । तस्माद्य इममितिहासं पठन् पितृभ्यः श्राद्धं
दद्यात् । तद्यथा स्थूलया गयाश्राद्धं कृतं भवेत् । स्वधा सह पितॄणाम् ।
एवमस्य पितॄणामनन्ता तृप्तिर्भवति । य एवं वेद । सोऽयमितिहास :
धन्यः पुण्यः पुत्रीयः पशव्य आयुप्यः स्वर्ग्यः । सार्वकालिकसर्वभय-
प्रमोक्षणः । नाधिभ्यो भयं भवति । न चोरेभ्यः । न रक्षोभ्यः । नाध्वनि
प्रमीयते । नाप्सु प्रमीयते । नाभौ प्रमीयते । नाप्सु न शस्त्रेण वध्यते ।
नानपत्यः प्रमीयते । सायं प्रयुञ्जानो दिवसकृतं पापं नाशयति । प्रात:
प्रयुञ्जानो रात्रिकृतं पापं नाशयति । सायंप्रातः प्रयुञ्जानः पापोऽपापो
भवति । पापभाजो हि श्रोतॄणामनसूयावतां पापाचापक्रामन्ति । एकशतं
चान्ये साधव आगमाः । एतावती परिभाषा । अत ऊर्ध्वं विद्यात् ।
जिह्वा रसं विजानाति हृदयं वेदयत् प्रियम् ।
चक्षुर्दिष्टः साक्षिभागो मनसा साधु पश्यति ॥