2026-02-08 07:40:27 by ambuda-bot
This page has not been fully proofread.
२१२
"वैष्णव- उपनिषदः
66
66
सरस्वती ललितादिरिति । साक्षाद्ब्रह्मस्वरूपो जगन्नाथः अहंशेषांशज्योतीरूपः
सुदर्शनो भक्तश्च । एवं पञ्चधा विभृतमिति । यत्र च मथुरा गोकुलं द्वारका
वैकुण्ठपुरी श्वेतपुरी रामपुरी यमपुरी नरसिंहपुरी नरनारायणपुरी कुबेरपुरी
गणेशपुरी शक्रपुरी एता देवतास्तिष्ठन्ति । यत्र रसातलपातालगङ्गारोहिणी-
कुण्डममृतकुण्डमित्यादिनानापुरी । यत्रान्नं सिद्वान्नम् । ('शूद्रादिस्पर्शदोषरहितं
ब्रह्मादिसंस्कारापेक्षारहितं यत्र श्रीजगन्नाथस्य योगमित्यर्थः । नाभ्या
आसीत् " इति मन्त्रेण, " अन्नपतेऽन्नस्य " इति मन्त्रेण, " अन्नाद्याय
व्यूहध्वं सोमो राजाय भागमत्समे सुखं प्रमार्यते यशसा च बलेन
च " इति मन्त्रेण, " विश्वकर्मणि स्वाहा " इति मन्त्रेण, " आपो ज्योती
रसोऽमृतं ब्रह्म भूर्भुवः सुवरोम् " इति मन्त्रेण, " पृथिवी ते पात्रं द्यौरपिधानं
ब्रह्मणस्त्वा मुखे जुहोमि स्वाहा " इति मन्त्रेण, " अन्नं ब्रह्म " इति श्रुत्या च
कैवल्यमुक्तिरुच्यते । यत्रान्नं ब्रह्म परमं पवित्रं शान्तो रसः कैवल्यमुक्तिः
सिद्धा भूर्भुवस्स्वर्महत्तत्त्वमित्यादि यत्र भार्गवी यमुना समुद्रममृतमयं
बृन्दावनानि नीलपर्वतगोवर्धनसिंहासनं प्रासादो मणिमण्टपो विमलादिषोड-
शचण्डिकागोप्यो यत्र समुद्रतीरे च निरन्तरं कामधेनुवृन्दं यत्र नृसिंहादयो
देवता आवरणानि यत्र न जरा न मृत्युर्न कालो न भङ्गो न जयो न
विवादो न हिंसा न शान्तिर्न स्वम एवं लीलाकामशरीरी स्वविनोदार्थ
भक्तैः सहोत्कण्ठितैस्तत्र क्रीडति कृष्णः । )
एको देवो नित्यलीलानुरक्तो
66
भक्तव्यापी भक्तहृद्यन्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः
साक्षी चेता केवलो निर्गुणश्च ॥
1 कुण्डलद्वयान्तर्गतो भागो व्याख्यानवत् भाति ।