2026-02-08 07:40:27 by ambuda-bot
This page has not been fully proofread.
राघोपनिषत्
२११
गन्धमादनवन शेषशायिवनश्यामायुवनभुज्युवनदधिवनवृषभानुवनसंकेतवनदीप -
वनरासवनक्रीडावनोत्सुकवनान्येतानि चतुर्विंशतिवनानि नित्यस्थलानि नाना-
लीलयाधिष्ठाय कृष्णः क्रीडति । [ तानि वनानि ] वसन्तऋतुसेवितानि
मन्दादिपवनयुक्तानि [सन्ति ] यत्र दुःखं नास्ति सुखं नास्ति जरा नास्ति मरणं
नास्ति क्रोधो नास्ति तत्र पूर्णानन्दमयः श्रीकैशोरकृष्णः शिखण्डिदललम्बित-
त्रियुमगुञ्जावतंसमणिमय किरीटशिराः गोरोचनातिलकः कर्णयोर्मकरकुण्डलो
वन्यस्रग्वी मालतीदामभूषितशरीरः करे कङ्कणं बाहौ केयूरं पादयोः किङ्किर्णी
कटयां पीताम्ब [रं च धारयन् ] गम्भीरनाभिकमलः सुवृत्तनासायुगलो
ध्वजवज्रादिचिह्नितपादपद्म महाविष्णु [ रास्ते ] ।
एवंरूपं कृष्णचन्द्रं चिन्तयेन्नित्यशः सुधीः ॥ इति ॥
तस्याद्या प्रकृती राधिका नित्या निर्गुणा सर्वालङ्कारशोभिता प्रसन्नाशे-
षलावण्यसुन्दरी । अस्मदादीनां जन्म तदधीनं अस्यांशाद्बहवो विष्णुरुद्रादयो
भवन्ति । एवंभूतस्यागाधमहिम्नः सुखसिन्धोरुत्पन्नमिति मानसपूजया ध्यानेन
कीर्तनेन स्तुत्या मानसेन सर्वेण नित्यस्थलं प्राप्नोति । नान्येनेति । नान्येनेति ।
नान्येति । इति वेदवचनं भवति । इति वेदवचनं भवति । इति वेदवचनं
भवति ॥
इत्याथर्वण्यां पुरुषबोधन्यां पारमहंस्यां तृतीयः प्रपाठकः
चतुर्थ: प्रपाठकः
अथ पुरुषोत्तमो यस्यां निशायां तुरीयं साक्षाद्ब्रह्म । यत्र परमसंन्या-
सस्वरूपः कृष्णः कल्पपादपः । यत्र लक्ष्मीर्जाम्बवती राधिका विमला चन्द्रावली