This page has not been fully proofread.

२१०
 
I
 
वैष्णव- उपनिषदः
 
रूपामनुरागसंवलितां कल्पतरोर्मूले [आस्ते ।] सुरभिविद्या अक्षमाला श्रुतिरिव
परमा सिद्धा सात्त्विकी । (शुद्धा सात्त्विकी गुणातीता स्नेहभावरहिता । अत
एव द्वयोर्न भेदः । कालमायागुणातीतत्वात् । तदेव स्पष्टयति अथेति । अथा-
नन्तरं मङ्गले वा । अथ वा श्रीबृन्दावनमध्ये ऋग्यजुस्सामस्वरूपम् । ऋगा-
त्मको मकारः । यजुरात्मक उकारः । श्रीरामः सामात्मकोऽपि अकारः ।
श्रीकृष्णः अर्धमात्रात्मकोऽपि । यशोदा इव बिन्दुः । परब्रह्म सच्चिदानन्दानंद-
राधाकृष्णयोः परस्परसुखाभिलाषरसास्वादन इव तत्सच्चिदानन्दामृतं कथ्यते ।
तल्लक्षणं यत् प्रणवं ब्रह्मविष्णुशिवात्मकं इच्छाज्ञानशक्तिनिष्ठं कायिकवाचिक-
मानसिकभावं सत्त्वरजस्तमस्स्वरूपं सत्य त्रेताद्वापरानुगीतम् । द्वापरस्य पश्चाद्वर्तते
कलिः । एतच्चतुर्युगेषु गीयते। तद्भूर्भुवस्वर्लक्षणमोङ्कार एव । यच्चान्यदतिरिक्तं
कालातीतं तदप्योङ्कार एव । सर्वे ह्येतद्ब्रह्म आत्मा सोऽहमस्मि इति धीमहि
चिन्तयेमहि । " आदित्यो वा एष एतन्मण्डलं तपति " इति यत् श्वेताख्यं
श्वेतद्वीपनाम स्थानं तुरीयातीतं गोकुलमथुराद्वारकाणां तुरीयमेतद्दिव्यं वृन्दा-
वनमिति पुरैवोक्तं सर्वं संपत्संप्रदायानुगतं यत्र II)
 
' इत्याथर्वण्यां पुरुषबोधन्यां पारमहंस्यां द्वितीयः प्रपाठकः
 
तृतीयः प्रपाठकः
 
अथानन्तरं भद्रश्रीलोहभाण्डीरमहातालख दिवकुलकुमुदकाम्यमधुबृ-
न्दावनानि द्वादशवनानि कालिन्द्याः पश्चिमे सप्तवनानि पूर्वस्मिन् पञ्चवनानि
उत्तरस्मिन् गुह्यानि सन्ति । मथुरावनमधुवनमहावनखादिरवनभाण्डी-
रवननन्दीश्वरवननन्दवनानन्दवनखाण्डववनपलाशवनाशोकवनकेतकवनद्रुमबन-
कुण्डलद्वयान्तर्गतो भागो व्याख्यानवत् भाति ।