2026-02-08 21:16:21 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore lang="sa">आर्षेयोपनिषत्
</ignore>
<verse lang="sa">सितमा एव दवयसितमा इव नेदीयसितमा एवेति । यदपि बहुधाचक्षीरन्न
किञ्च प्रतिपद्यत इति तन्मे ब्रह्मेति ॥
</verse>
<p lang="sa">तदु ह वसिष्ठो नानुमेने । यदिमा विस्फूर्जयत एवाभिपद्यन्ते
वीवयन्ति मिथु चेति विचक्षतेऽकाण्ड इवेमा न ह वै परमित्था कश्चनाश्नोत्य-
संविदान इव । अप ये संविद्रते तदेतदन्तर्विचक्षत इति । महिम्नः पश्येमा
विजान इति । स य एवमिमा महिम्न एवास्य पश्यन्नुपास्ते महिम्न एवाश्नोति
सर्वमायुरेति वसीयान् भवति । यस्त्विमा अवयतीरेवोपास्ते न परा
संपद्यमाना नो एव परेति पापीयान् भवति वीवपद्यते प्रमीयते । अथ य
इमाः परा संपद्यमाना एवोपास्ते परैव संपद्यते सर्वमायुरेति वसीयान् भवति ॥
</p>
<p>तमितरः पप्रच्छ । कतमत् त्वमनातर्तं मन्यस इति । महाविज्ञानमिव
प्रतिपदेनाध्यवसायमिव यत्रैतदित्येत्येथेत्थेत्यभिपश्यति । अथ नेति नेत्येतदित्थे-
त्थेति । स वा अयमात्मा अनन्तोऽजरोऽपारो न वा अरे बाह्यो नान्तर:
सर्वविद्भारूपो विघसः प्रसरणोऽन्तर्ज्योतिर्विश्वभुक् सर्वस्य वशी सर्वस्येशानः
सर्वमभिक्षिपन्न तमश्नोति कश्चन ॥
</p>
<verse lang="sa">परोवरीयांसमभिप्रणुत्यमन्तर्जुषाणं भुवनानि विश्वा ।
यमश्नवन्न कुशिकासो अग्निं वैश्वानरमृतजातं गमध्ययी ॥ १ ॥
</verse>
<verse>भरेभरेषु तमुपह्वयाम प्रसासहिं युध्ममिन्द्रं वरेण्यम् ।
सला
सत्रासा <add>[ह]</add> मवसे जनानां पुरुहूतमृग्मिणं विश्ववेदसम् ॥ २ ॥
</verse>
<verse>अहिघ्नं तमर्णवे शयानं वावृहाणं तवसा परेण ॥ ३ ॥
1
</verse>
<p lang="sa">तदु ह प्रतिपेदिरे । ते वाभिवाद्यैवोपसमीयुः । नमोऽग्नये । नम
इन्द्राय । नमः प्रजापतये । नमो ब्रह्मणे । नमो ब्रह्मणे ॥
1
</p>
<trailer lang="sa">इत्यार्षेयोपनिषत् समाप्ता
U 2
</trailer>
</page>
<ignore lang="sa">आर्षेयोपनिषत्
<verse lang="sa">सितमा एव दवयसितमा इव नेदीयसितमा एवेति । यदपि बहुधाचक्षीरन्न
किञ्च प्रतिपद्यत इति तन्मे ब्रह्मेति ॥
<p lang="sa">तदु ह वसिष्ठो नानुमेने । यदिमा विस्फूर्जयत एवाभिपद्यन्ते
वीवयन्ति मिथु चेति विचक्षतेऽकाण्ड इवेमा न ह वै परमित्था कश्चनाश्नोत्य-
संविदान इव । अप ये संविद्रते तदेतदन्तर्विचक्षत इति । महिम्नः पश्येमा
विजान इति । स य एवमिमा महिम्न एवास्य पश्यन्नुपास्ते महिम्न एवाश्नोति
सर्वमायुरेति वसीयान् भवति । यस्त्विमा अवयतीरेवोपास्ते न परा
संपद्यमाना नो एव परेति पापीयान् भवति वीवपद्यते प्रमीयते । अथ य
इमाः परा संपद्यमाना एवोपास्ते परैव संपद्यते सर्वमायुरेति वसीयान् भवति ॥
<p>तमितरः पप्रच्छ । कतमत् त्वमना
प्रतिपदेनाध्यवसायमिव यत्रैतदित्