This page has not been fully proofread.

आर्षेयोपनिषत्
 
सितमा एव दवयसितमा इव नेदीयसितमा एवेति । यदपि बहुधाचक्षीरन्न
किञ्च प्रतिपद्यत इति तन्मे ब्रह्मेति ॥
 
तदु ह वसिष्ठो नानुमेने । यदिमा विस्फूर्जयत एवाभिपद्यन्ते
वीवयन्ति मिथु चेति विचक्षतेऽकाण्ड इवेमा न ह वै परमित्था कश्चनाश्नोत्य-
संविदान इव । अप ये संविद्रते तदेतदन्तर्विचक्षत इति । महिम्नः पश्येमा
विजान इति । स य एवमिमा महिम्न एवास्य पश्यन्नुपास्ते महिम्न एवाश्नोति
सर्वमायुरेति वसीयान् भवति । यस्त्विमा अवयतीरेवोपास्ते न परा
संपद्यमाना नो एव परेति पापीयान् भवति वीवपद्यते प्रमीयते । अथ य
इमाः परा संपद्यमाना एवोपास्ते परैव संपद्यते सर्वमायुरेति वसीयान् भवति ॥
तमितरः पप्रच्छ । कतमत् त्वमनात मन्यस इति । महाविज्ञानमिव
प्रतिपदेनाध्यवसायमिव यत्रैतदित्येत्येत्यभिपश्यति । अथ नेति नेत्येतदित्थे-
त्थेति । स वा अयमात्मा अनन्तोऽजरोऽपारो न वा अरे बाह्यो नान्तर:
सर्वविद्भारूपो विघसः प्रसरणोऽन्तर्ज्योतिर्विश्वभुक् सर्वस्य वशी सर्वस्येशानः
सर्वमभिक्षिपन्न तमश्नोति कश्चन ॥
 
परोवरीयांसमभिप्रणुत्यमन्तर्जुषाणं भुवनानि विश्वा ।
 
यमश्नवन्न कुशिकासो अग्निं वैश्वानरमृतजातं गमध्ययी ॥ १ ॥
भरेभरेषु तमुपह्वयाम प्रसासहिं युध्ममिन्द्रं वरेण्यम् ।
 
सलासा [ह] मवसे जनानां पुरुहूतमृग्मिणं विश्ववेदसम् ॥ २ ॥
अहिघ्नं तमर्णवे शयानं वावृहाणं तवसा परेण ॥ ३ ॥
 
1
 
तदु ह प्रतिपेदिरे । ते वाभिवाद्यैवोपसमीयुः । नमोऽग्नये । नम
इन्द्राय । नमः प्रजापतये । नमो ब्रह्मणे । नमो ब्रह्मणे ॥
 
1
 
इत्यार्षेयोपनिषत् समाप्ता
 
U 2