This page has not been fully proofread.

२०४
 
वैष्णव - उपनिषदः
 
तेषामयनभूतत्वान्नारायण इहोच्यते ।
नरसंबन्धिनो नारा नरश्च पुरुषोत्तमः ॥
नाम्यत्यखिल विज्ञानं नाशयत्यखिलं तमः ।
नरिष्यति च सर्वत्र नरस्तस्मात्सनातनः ॥
नरसंबन्धिनः सर्वे चेतनाचेतनात्मकाः ।
 
नृगन्तव्यतया नारा भार्या पोष्यतया नराः ॥
 
तथा--
 
नियाम्यत्वेन सृज्यत्वप्रवेशभरणैस्तथा
 
अयं ते निहितो नारात् व्याप्नोति क्रिययाऽखिलम् ॥
नाराश्चाप्ययनं तस्य तस्मै भावनिरूपणात् ।
 
नराणामयनं वासश्चेतनस्यायनं सदा ।
 
परमा च गतिस्तेषां नराणामात्मना स्थितिः ॥
 
व्यापिनारायणपरत्वाभिप्रायेण तस्मै परब्रह्मणे इत्युक्तम् ॥ ४ ॥
 
जेनातिर्जेनातिषां जेनातिरोजो बलमाहरत्सत्त्वात्मकं सं-
जेनातिरित्थं तस्मै सूक्ष्मसूक्ष्माय तेजसे स्वाहा ॥ ५ ॥
 
परब्रह्मभूतनारायणस्य माहात्म्यं प्रतिपादयति अत्यन्तदीपवत्
सूर्यचन्द्राग्न्यादीनां जेनातिः दीप्तिः ओजः परबलाहरणसामर्थ्यमोजः
जगत्सृष्ट्यादिकं कुर्वतस्तस्य श्रीमहाविष्णोः बलं सत्त्वं सत्त्वात्मकं तदन्त-
र्यामिणां संजेनातिः सम्यक् ज्योतिः इत्थं उक्तप्रकारेण तस्मै ॥ ५ ॥
 
सत्त्वं सत्त्वात्मकं वा रजो रजस आत्मकस्तमस्तमस
 
आधार: साकृतं निरीश्वरमीश्वराय स्वाहा ॥ ६॥