2026-02-08 07:40:25 by ambuda-bot
This page has not been fully proofread.
२०२
"वैष्णव- उपनिषदः
सर्वे तमोभूतं सृष्टेः प्रागा मनोस्तु सत्त्वरूपं सहस्रशीर्षेत्यादिरूपं
प्रजासृष्टिनिमित्ताय सृष्ट्यर्थम् ।
श्रीविष्णुपुराणे-
प्रकृतिं पुरुषं चैव प्रविश्य स्वेच्छया हरिः ।
क्षोभयामास संप्राप्ते सर्गकाले व्ययः स्वयम् ॥
प्रकृतिं पुरुषं चैव विध्यनादी उभावपि ।
मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् ।
संभवः सर्वभूतानां ततो भवति भारत ॥
एवमुक्तप्रकारेण अनुप्रविश्य प्रकृतिपुरुषौ शंक्लेशयन् सृष्टिमकरोत् ।
कथमिति चेत् सहस्रबाहुरिति सोऽग्रे भूतानां मृत्युमसृजत् । त्र्यक्षं त्रिपादं
खण्डपरशुमजीजनत् । तस्य ब्रह्माभिपेदे स ब्रह्माणमेव विवेश । स मानसात्
सप्त पुत्रानसृजत् । ते ह विराजं सप्तमानसानसृजन् प्रजापतय: " ब्राह्मणोऽस्य
मुखमासीत् । बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः । पया शूद्रो
अजायत । चन्द्रमा मनसो जात: । चक्षोः सूयो अजायत ", " श्रोत्राद्वायुश्च
प्राणश्च हृदयात् इदं जायते अपानान्निषादा यक्षराक्षसगन्धर्वा अप्सरोभ्यः
पर्वतो लोमभ्यः ओषधिवनस्पतयो ललाटात् क्रोधजो रुद्रो जायते । तस्यैतस्य
महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदस्सामवेदोऽथर्वणवेद : शिक्षा कल्पो
व्याकरणं छन्दो निरुक्तं ज्योतिषं न्यायो मीमांसा धर्मशास्त्राणि व्याख्या-
नान्युपव्याख्यानानि सर्वाणि च भूतानि हिरण्यज्योतिर्यस्मिन्नयमात्मा
धीयन्ते भुवनानि विश्वा आत्मानं द्विधाऽकरोत । अर्धेन स्त्री अर्धेन पुरुषो
देवो भूत्वा देवानसृजत् ऋषिर्भूत्वा ऋषीन् यक्षराक्षसगन्धर्वान् ग्राम्याना-
रण्यांश्च पशूनसृजत् । इतरा गा इतरोऽनडुह इतरा बडबा इतरोऽश्वतरान्
इतरा गर्दभीः इतरो गर्दभान् इतरा विश्वभरीरितरो विश्वंभरान् " इति एवं