2026-02-08 07:40:24 by ambuda-bot
This page has not been fully proofread.
पारमात्मिकोपनिषत्
सेहे तीत्रां तपश्चर्या कर्तुमेवोभयोः प्रियम् ।
महाविष्णोश्च या माऽस्ति तां मायां प्रकृतिं विदुः ॥
लोकयात्रा विना तां तु नैति श्रीः सा स्मृता बुधैः ।
तस्याः श्रियाः स्त्रियोऽभिन्नाः पूर्षाश्च पुरुषोत्तमात् ॥
तस्मात्तया श्रिया सार्धं पूजयेत्पुरुषोत्तमम् ।
संसारचक्रयत्नाभ्यां निजं ते स्यात्सुदर्शनम् ॥
हंसाख्यं चेतनारूपं सर्वप्राणिहृदि स्थितम् ।
तच्छङ्खरूपो देवश्च पाञ्चजन्याख्य उच्यते ॥
पञ्चभूतात्मको ह्यस्य सर्ववेदमयोऽक्षरः ।
छन्दोमयाभ्यां पक्षाभ्यां युक्तः पक्षिगणेश्वरः ॥
गरुडो वाहनं चापि विष्णोर्देवस्य कीर्तितः ।
पृथिवीवायुसंयोगश्चापः शार्ङ्ग हरेः स्मृतः ॥
तेजो वायुमयो ह्यस्य नाम्ना संशरणाच्छरः ।
विद्याविद्याशरैर्युक्ते अक्षये ते महेषुधी ॥
लोकालोकाचलः प्रोक्तो विद्योताख्यं तु खेटकम् ।
कृतान्तो नन्दकः खड्गं सर्वप्राणिहृदि स्थितम् ॥
या दण्डनीतिः सा ख्याता गदा कौमोदकी हरेः ।
सर्वार्थेषु जयो ह्यस्य स त्वजागरता स्थिता ॥
सर्वबन्धुषु यद्वद्धं प्रेमपाशं परस्परम् ।
दृढं भ्रातृसमाख्यं तत्त्वाशुसर्वार्थसंमतम् ॥
सर्वप्राणिषु या शक्तिः शक्तिर्विधुन्निभा मता ।
मर्यादा यदधोलोके भेरी सा तु महारवा ॥
१९९