2026-02-08 07:40:24 by ambuda-bot
This page has not been fully proofread.
१९८
वैष्णव- उपनिषदः
एवमादीनि वस्तूनि नित्यसिद्धानि शंकर ।
नैतेषां च परित्यागे नान्यस्तेषां व्यपाश्रयः ॥
अशक्यमिदमत्यर्थमित्याह प्रमथाधिपम् ।
स चाह चान्वेतु वक्ष्ये तथैवास्तु यथेप्सितम् ॥
तत्रैव-
----
अन्तरात्मा हि सर्वेषां स्तौति नारायणं प्रभुम् ।
तदशक्यं महच्चक्रं विष्णोरन्यस्य कस्यचित् ॥
शुद्धसत्त्वस्य तद्विष्णोः सर्वेशस्य मया वपुः ।
साक्षात्स्पृष्टो महान् भीतस्तमोगुणसमाश्रयः ॥
यस्तत्त्वं च मया विष्णो दिव्यमङ्गलविग्रह ।
त्वामेव तदहं नित्यं विष्णोर्नित्यानपायिनम् ॥
अनुप्रविश्य त्वदेहे वसिष्यामि सुदर्शन ।
ननु यद्वैष्णवं तेजः शाणितं विश्वकर्मणा ॥
जाज्वल्यमानमपतत्तद्भूमौ मुनिसत्तम ।
तेन चक्रं महाविष्णोः शिविकामप्यकल्पयत् ॥
दैत्यः पञ्चजनो नाम प्रभुर्जलभरस्तथा ।
तस्यास्थिप्रभवं शङ्खमादाय पुरुषोत्तमः । इति ॥
अनुशासनिके उमा-
बहूनामायुधानां तु पिनाकं धर्तुमिच्छसि ।
किमर्थं देवदेवेश तन्मे शंसितुमर्हसि ॥
महेश्वरः-
--
शस्त्रग्रहं ते वक्ष्यामि शृणु धर्मे शुचिस्मिते ।
युगान्तरे महादेवि कण्वनामा महामुनिः ॥