This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">
,
 
</ignore>
<ignore lang="sa">
सामान्यवेदान्त - उपनिषदः
 
</ignore>
<p lang="sa">
स्योरेव पर्यायेणोपवन्वीमहि यदिदमित्थेत्थोपव्याख्यास्याम इति । महिमानं

वेवास्योपासे । यदिदमत्रान्वायत्तमिति । स यदिदमत्रान्वायत्तं वेदाथ

तथैवोपास्तेऽत्रैवान्वायत्तो भवति । स य इहान्वायत्तमिदम विद्वानेवैतदुपास्ते

पापीयान् भवत्यार्तिमार्च्छत्यवम्रियते यदेवमेतदन्वायत्तमुपास्ते सर्वमायुरेति

वसीयान् भवति । स य एतदेनमुपास्ते ॥
 

 
</p>
<p lang="sa">
तमितर: पप्रच्छ । कतमत् त्वमनातेर्तं मन्यस इति ।

होवाच । यदेतस्मिन् मण्डलेऽर्चिर्दीप्यते बंभ्रम्यमाणमिव चाकश्यमानमिव

जाज्वल्यमानमिव देदीप्यमानमिव लेलिहानं तदेव मे ब्रह्म । तस्योपव्याख्यानं

यदिद्रमद्वैधैव पराः परावतोऽभिपद्यंते संपन्नमेवैतत् संमितमेव यथोपयातमात्मैवा-

भिचक्षत इति । य एतदभिपद्येव गृह्णीयादथो विस्फुरन्तीव धावन्तीवोत्प्लवंतीवो-
परिल

पश्लि
प्यंतीव न हैवाभिपद्यन्ते । तदिदमन्तिके दवीयो नेदीय इव दूरतो न वा

अस्य महिमानं कश्चिदेतीति ॥
 
</p>
<p lang="sa">
तदु ह न मेने गौतमो यदिदमार्तमिव स्तिमितमिव पर्यायेण

पश्यन्तीवेमं मोघं संविदाना इति । य इमे पुण्ड्राः सुझा:ह्माः कुलुम्भा

दरदा बर्बरा इति । न ह वा असंविदाना एव द्रागिवाभि तत्पद्यन्त

इति । महिमानं त्वेवास्योपासे । य एतदस्मिन्नन्तरे हिरण्मयः पुरुषो

हिरण्यवर्णो हिरण्यश्मश्रुरानखाग्रेभ्यो दीप्यमान इव । स य एवमेन -

मुपास्तेऽतीव सर्वभूतानि तिष्ठंति सर्वमायुरेति वसीयान् भवति । न ह वा

एष परमतीवोदेति । यस्त्वेनं परमतीवोद्यन्तं पश्यन्नुपास्ते पापीयान् भवति

वीवपद्यत आर्तिमृच्छति । यस्त्वेनं परमनूद्यन्तं वेदाथ तथोपास्ते परं ज्योति -

रुपसंपद्यते सर्वमायुरेति वसीयान् भवति । स य एवमेनमुपास्ते ॥
 
</p>
<p lang="sa" merge-next="true">
तमितरः पप्रच्छ । कतमत् त्वमनार्तं मन्यस इति । तं होवाच ।

विस्फुरंतीरेवेमा लेलायन्तीरिव संजिहाना इव नेदीयसितमा इव दवीय
 
</p>
</page>