This page has not been fully proofread.

८,
 
सामान्यवेदान्त - उपनिषदः
 
स्योरेव पर्यायेणोपवन्वीमहि यदिदमित्थेत्थोपव्याख्यास्याम इति । महिमानं
वेवास्योपासे । यदिदमत्रान्वायत्तमिति । स यदिदमत्रान्वायत्तं वेदाथ
तथैवोपास्तेऽत्रैवान्वायत्तो भवति । स य इहान्वायत्तमिदम विद्वानेवैतदुपास्ते
पापीयान् भवत्यार्तिमार्च्छत्यवम्रियते यदेवमेतदन्वायत्तमुपास्ते सर्वमायुरेति
वसीयान् भवति । स य एतदेनमुपास्ते ॥
 

 
तमितर: पप्रच्छ । कतमत् त्वमनाते मन्यस इति ।
होवाच । यदेतस्मिन् मण्डलेऽर्चिदप्यते बंभ्रम्यमाणमिव चाकश्यमानमिव
जाज्वल्यमानमिव देदीप्यमानमिव लेलिहानं तदेव मे ब्रह्म । तस्योपव्याख्यानं
यदिद्रमद्वैव पराः परावतोऽभिपद्यते संपन्नमेवैतत् संमितमेव यथोपयातमात्मैवा-
भिचक्षत इति । य एतदभिपद्येव गृह्णीयादथो विस्फुरन्तीव धावन्तीवोत्प्लवंतीवो-
परिलप्यंतीव न हैवाभिपद्यन्ते । तदिदमन्तिके दवीयो नेदीय इव दूरतो न वा
अस्य महिमानं कश्चिदेतीति ॥
 
तदु ह न मेने गौतमो यदिदमार्तमिव स्तिमितमिव पर्यायेण
पश्यन्तीवेमं मोघं संविदाना इति । य इमे पुण्ड्राः सुझा: कुलुम्भा
दरदा बर्बरा इति । न ह वा असंविदाना एव द्रागिवाभि तत्पद्यन्त
इति । महिमानं त्वेवास्योपासे । य एतदस्मिन्नन्तरे हिरण्मयः पुरुषो
हिरण्यवर्णो हिरण्यश्मश्रुरानखाग्रेभ्यो दीप्यमान इव । स य एवमेन -
मुपास्तेऽतीव सर्वभूतानि तिष्ठति सर्वमायुरेति वसीयान् भवति । न ह वा
एष परमतीवोदेति । यस्त्वेनं परमतीवोद्यन्तं पश्यन्नुपास्ते पापीयान् भवति
वीवपद्यत आर्तिमृच्छति । यस्त्वेनं परमनूद्यन्तं वेदाथ तथोपास्ते परं ज्योति -
रुपसंपद्यते सर्वमायुरेति वसीयान् भवति । स य एवमेनमुपास्ते ॥
 
तमितरः पप्रच्छ । कतमत् त्वमनात मन्यस इति । तं होवाच ।
विस्फुरंतीरेवेमा लेलायन्तीरिव संजिहाना इव नेदीयसितमा इव दवीय