This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">
आर्षेयोपनिषत्
 
</ignore>
<title lang="sa">
आर्षेयोपनिषत्
 

 
</title>
<p lang="sa">
ॐ ऋषयो वै ब्रह्मोद्यमाह्वयितवा ऊचुः परस्परमिवानुब्रुवाणाः । तेषां

विश्वामित्रो विजितीयमिव मन्यमान उवाच । यदेतदन्तरे द्यावापृथिवी

अनश्नुवदिव सर्वमश्नवद्यदिदमाकाशमिवेतश्चेतश्च स्तनयन्ति विद्योतमाना

इवावस्फूर्जयमाना इव तद्ब्रह्मेति । तस्योपव्याख्यानम् । यदिदमग्निभिर्ज्वलयन्ति

पोप्लूययन्त्यद्भिरभिषीवयन्ति वदुधीद्ध्रीभिरभिग्रथ्नंति वरत्राभिरभिघ्नंत्ययोघनैर्वि-

ध्यंति सूचीभिः निखानयंति शंकुभिरभिवृन्दन्ति पडीतृन्दन्ति पड्वीशिकाभिरभिलिम्पन्ति

मृत्स्नया तक्ष्णुवंति वासीभिः कृष्णंति फलिभिर्नहैव शक्नुवत इति नास्ये-

शीमहि नैनमतीयीमहि ॥
 
</p>
<p lang="sa">
तदु ह जमदग्निर्नानुमेने आर्तमिव वा एष तन्मेने यदिदमन्तरेणैन-

दुपयंति पर्यास इवैष दिवस्पृथिव्योरिति । स होवाच अन्तरिक्षं वा

एतद्यदिदमित्थेत्थोपव्याख्ये इति । महिमानं त्वमुप्ष्येह पश्यामीति यदिद -

मस्मिन्नन्वायत्तमिति । स यदिदमेतस्मिन्नन्वायत्तं वेदाथ तथोपास्तेऽन्वायत्तो

हैवास्मिन् भवति । तदेतदविद्वानेवास्मिन्नन्वायत्तमुपास्ते वीवपद्यत् आर्ति-

मृच्छेत् । तस्मादेवमेवोपासीत ॥
 
</p>
<p lang="sa">
तमितरः पप्रच्छ । कतमत् त्वमनार्तं मन्यस इति । तं होवाच ।

यदिदमिति द्यावापृथिव्योरनारंभमिव नोपयन्ति नाभिचक्षते नाश्नुवन्ति ।

तस्योपव्याख्यानम् । यदिदमितश्चेतश्चाण्डकोशा उदयन्ति नापद्यन्त इव न

विस्रंसन्त इव न स्खलंतीव न पर्यावर्तन्त इव । न ह वा एनत्केचिदु-

पधावन्तो विन्दन्ति नाभिपश्यन्ति । यदिदमेक इदप एवाहुस्तम एके ज्योति -
tasa

रेकेऽव
काशमेके परमं व्योमैक आत्मानमेक इति ॥
 
</p>
<p lang="sa" merge-next="true">
तदु ह भरद्वाजो नानुमेने । यदिह सर्वे वेत्थेत्थेति द्यूदिरे नास्य

तद्रूपं पर्याप्तमिति । स होवाच । आर्तमिवेदं ते विज्ञानमपि स्विदेनद्रोद-
 
</p>
</page>