2026-02-08 07:39:37 by ambuda-bot
This page has not been fully proofread.
आर्षेयोपनिषत्
आर्षेयोपनिषत्
७
ॐ ऋषयो वै ब्रह्मोद्यमाह्वयितवा ऊचुः परस्परमिवानुब्रुवाणाः । तेषां
विश्वामित्रो विजितीयमिव मन्यमान उवाच । यदेतदन्तरे द्यावापृथिवी
अनश्नुवदिव सर्वमश्नवद्यदिदमाकाशमिवेतश्चेतश्च स्तनयन्ति विद्योतमाना
इवावस्फूर्जयमाना इव तद्ब्रह्मेति । तस्योपव्याख्यानम् । यदिदमग्निभिर्ज्वलयन्ति
पोप्लूययन्त्यद्भिरभिषीवयन्ति वदुधीभिरभिग्रनंति वरत्राभिरभिघ्नंत्ययोघनैर्वि-
ध्यंति सूचीभिः निखानयंति शंकुभिरभिवृन्दन्ति पडीशिकाभिरभिलिम्पन्ति
मृत्स्नया तक्ष्णुवंति वासीभिः कृष्णंति फलिभिर्नहैव शक्नुवत इति नास्ये-
शीमहि नैनमतीयीमहि ॥
तदु ह जमदग्निर्नानुमेने आर्तमिव वा एष तन्मेने यदिदमन्तरेणैन-
दुपयंति पर्यास इवैष दिवस्पृथिव्योरिति । स होवाच अन्तरिक्षं वा
एतद्यदिदमित्थेत्थोपव्याख्ये इति । महिमानं त्वमुप्येह पश्यामीति यदिद -
मस्मिन्नन्वायत्तमिति । स यदिदमेतस्मिन्नन्वायत्तं वेदाथ तथोपास्तेऽन्वायत्तो
हैवास्मिन् भवति । तदेतदविद्वानेवास्मिन्नन्वायत्तमुपास्ते वीवपद्यत् आर्ति-
मृच्छेत् । तस्मादेवमेवोपासीत ॥
तमितरः पप्रच्छ । कतमत् त्वमनात मन्यस इति । तं होवाच ।
यदिदमिति द्यावापृथिव्योरनारंभमिव नोपयन्ति नाभिचक्षते नाश्नुवन्ति ।
तस्योपव्याख्यानम् । यदिदमितश्चेतश्चाण्डकोशा उदयन्ति नापद्यन्त इव न
विस्रंसन्त इव न स्खलंतीव न पर्यावर्तन्त इव । न ह वा एनत्केचिदु-
पधावन्तो विन्दन्ति नाभिपश्यन्ति । यदिदमेक इदप एवाहुस्तम एके ज्योति -
tasaकाशमेके परमं व्योमैक आत्मानमेक इति ॥
तदु ह भरद्वाजो नानुमेने । यदिह सर्वे वेत्थेत्थेति द्यूदिरे नास्य
तद्रूपं पर्याप्तमिति । स होवाच । आर्तमिवेदं ते विज्ञानमपि स्विदेनद्रोद-