This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">
२. सामान्यवेदान्त - उपनिषदः
 
</ignore>
<title lang="sa">
अद्वैतोपनिषत्
 
</title>
<p lang="sa" merge-next="true">
अद्वैतपुरुषस्य न द्वितीयो भेदोऽस्ति । स्थिरजंगममध्ये अद्वैतं

ब्रह्म प्रकाशितम् । सर्वलोकमध्ये ब्रह्म द्विधारूपं विचरति । चैतन्यचित्तेजसः

अन्तरात्मा । मध्ये कैवल्यात्मा । एकैकं यथा रवितेज: रविर्भवेत् तथा

अखण्डितब्रह्म मायाजगत्त्रयं अवस्थात्रयं परमात्मनः एकं भवति । या

बुद्धिर्गर्भमध्ये सा बुद्धिर्बाल्यावस्था न भवति । या बुद्धिर्बाल्यावस्था भवति

सा बुद्धिर्यौवनावस्था न भवति । या बुद्धिर्यौवनावस्था सा बुद्धिर्यूनावस्था न

भवति । जरावस्था कालसंप्रीकामेवधर्मक्रीयते कारणं तत्त्वज्ञानं भवति ।

ज्ञानप्रबोधो यस्मिन्मध्ये मायामोहं परित्यज्य सर्वकर्मविनिर्मुक्तः स

शब्दातीतोऽपि जायते । अथेतोऽपि अद्वैतपुरुषस्य पूर्णM ब्रह्म प्रतिभासि-

तम् । यथा नदी जायते सागर एकोऽपि सागरप्रतिभासितः तथा ब्रह्म

सर्वान्तरा<error>न्मा</error><fix>त्मा</fix> मध्ये प्रकाशितम् । नाप्रसं संपुटं सत्त्वरजस्तमोगुणरहितं तत्त्वं

चेति । यथा योगी वायुनिरोधनं उक्ताचरणगुरुराछिनोति किल्बिषम् ।

सर्वदिव्यदेहमध्ये परमात्मा प्रकाशितः विनिर्मुक्तभवसागरः स्वर्गे देवमध्ये

उत्तमस्वल्पस्य बुद्धिप्रकाशः अस्मिन्मध्ये मायामोहं परित्यजेत् । प्रकाशमध्ये
 
</p>
</page>