This page has not been fully proofread.

M
 
योगराजोपनिषत्
 
संविद्ब्रूयाच्च तन्मध्ये शक्तिरुद्धा स्थिता परा ।
 
तत्र पूर्णा गिरौ पीठे शक्तिं ध्यात्वा विमुच्यते ॥ १८ ॥
एतेषां नवचक्राणामेकैकं ध्यायतो मुनेः ।
 
सिद्धयो मुक्तिसहिताः करस्थाः स्युर्दिने दिने ॥ १९ ॥
 
एको दण्डद्वयं मध्ये पश्यति ज्ञानचक्षुषा ।
 
कदम्बगोलकाकारं ब्रह्मलोकं व्रजन्ति ते ॥ २० ॥
ऊर्ध्वशक्तिनिपातेन अधः शक्तेर्निकुञ्चनात् ।
मध्यशक्तिप्रबोधेन जायते परमं सुखं
 
जायते परमं सुखम् । इति ॥ २१ ॥
 
इति योगराजोपनिषत् समाप्ता