This page has not been fully proofread.

सरः ]
 
द्रव्यसाधनम्
 
तत्वमुक्ताकलापः
 
23
 
*' एकार्थप्रत्यभिज्ञा भवति दृढतरा दर्शनस्पर्शनाभ्यां
 
2
 
सर्वार्थसिद्धिः
 
* ननु द्रव्यमद्रव्यमित्युभयमसिद्धं,
 
आनन्ददायिनी
 
नन्ववस्थाश्रयो द्रव्यमिति लक्षणमसंगतं ; धर्मधर्म्यभावात् इत्या-
क्षेपसंगतिं दर्शयति — नन्विति – चत्वारो हि बौद्धाः - वैभाषिकसौत्रा-
न्तिकयोगाचारमाध्यमिकभेदात् । तत्र वैभाषिका अपि द्विविधा:-
 
भावप्रकाशः
 
ज्ञानमेकमेव तत्वमिति योगाचाराः । ज्ञानज्ञेयौ द्वौ न तु ज्ञाता
इति वैभाषिकाः । इदंच मतद्वयं प्रमाणं प्रमेयं प्रमाता प्रमितिरिति
चतुर्धा विभागेन परिष्करणीयमिति तात्पर्येण प्रमाणप्रमेयेत्यादि सूत्र-
यताऽक्षपादेन 'दर्शनस्पर्शनाभ्यामेकार्थग्रहणात्' इति यत्प्रमेयपरी-
क्षासूत्रमारब्धं तद्दव्यपरीक्षासूत्रमपि भवतीति तदेव ज्ञेयं द्विविधं धर्मो
धर्मी चेति वैभाषिकादिमतपरिष्करणायापि प्रभवतीति व्यञ्जयति —
* 1 मूले एकार्थप्रत्यभिज्ञा; दर्शनस्पर्शनाभ्यां इति पदद्वयेन ।
ननु द्रव्याद्रव्यविभागः परब्रह्मणा साक्षात्परम्परया
साक्षात्परम्परया च संबद्धानां
गुणानां तदाश्रयस्य च अत्यन्तभेदज्ञापनायेति न युज्यते ; लोके
रूपादिप्रत्यक्षे दण्डकुण्डलादि प्रत्यक्ष इव पृथग्विभिन्नवस्तुद्वयभा-
नाननुभवेन रूपादिप्रत्यक्षस्योभयविषयकत्वासिद्ध्या रूपाद्यतिरिक्तव-
स्तुन एवाभावेन ब्रह्मगुणानां तदाश्रयस्य च भेदकथाया एवाभा-
वादित्याशयेन शङ्कते -* नन्विति ।
 
;